________________
अध्याय- २ ]
[ स्वाध्यायदोहन
हितोपदेशात् सकलज्ञकॢप्तेर्मुमुक्षुसत्साधुपरिग्रहाच्च । पूर्वापरार्थेष्वविरोधसिद्धेस्त्वदागमा एव सतां प्रमाणम् ॥ ११॥
7
110
क्षिप्येत वाऽन्यैः सदृशीक्रियेत वा, तवाङ्गिपीठे लुठनं सुरेशितुः । इदं यथावस्थितवस्तुदेशनं, परैः कथङ्कारमपाकरिष्यते ? ॥ १२ ॥
8
तद्दुःषमाकालखलायितं वा, पचेलिमं कर्म भवानुकूलम् |
9
उपेक्षते यत्तव शासनार्थमयं जनो विप्रतिपद्यते वा ॥ १३ ॥
10
परः सहस्राः शरदस्तपांसि युगान्तरं योगमुपासतां वा । तथापि ते मार्गमनापतन्तो, न मोक्ष्यमाणा अपि यान्ति मोक्षम् ॥ १४ ॥ अनात जाड्यादिविनिर्मितित्व सम्भावनासम्भविविप्रलम्भाः । परोपदेशाः परमाप्तक्लृप्त—पथोपदेशे किमु संरभन्ते ? ॥ १५ ॥ यदार्जवादुक्तमयुक्तमन्यैस्तदन्यथाकारमकारि शिष्यैः ।
11
न विप्लवोऽयं तत्र शासनेऽभूदहो ! अधृष्या तत्र शासनश्रीः || १६ || देहाद्ययोगेन सदाशिवत्वं, शरीरयोगादुपदेशकर्म ।
12
परस्परस्पर्धि कथं घटेत, परोपक्लुतेष्वधिदैवतेषु
प्रागेव देवान्तरसंश्रितानि, रागादिरूपाण्यवमान्तराणि । #मोहभ्यां करुणामपीश !, समाधि माध्यस्थ्ययुगाश्रितोऽसि ॥ १८ ॥
13
11 30 11