________________
अयोग द्वात्रिंशिका ] 109
[ अध्याय-२क सिद्धसेनस्तुतयो महार्थी ?, अशिक्षिताऽऽलापकला क चैषा?। तथापि यूथाधिपतेः पथिस्थः, स्खलद्गतिस्तस्य शिशुर्न शोच्यः॥३॥ जिनेन्द्र ! यानेव विबाधसे स्म, दुरन्तदोषान् विविधैरुपायैः । त एव चित्रं त्वदसूययेव, कृताः कृतार्थाः परतीर्थनाथैः ॥ ४ ॥ यथास्थितं वस्तु दिशन्नधीश !, न तादृशं कौशलमाश्रितोऽसि । तुरङ्गशृङ्गाण्युपपादयद्भ्यो, नमः परेभ्यो नवपण्डितेभ्यः ॥ ५ ॥ जगत्यनुध्यानबलेन शश्वत्, कृतार्थयत्सु प्रसभं भवत्सु । किमाश्रितोऽन्यैः शरणं त्वदन्यः, स्वमांसदानेन वृथा कृपालुः ॥६॥
स्वयं कुमार्गग्लपिता नु नाम, प्रलम्भमन्यानपि लम्भयन्ति । सुमार्गगं तद्विदमादिशन्तमसूययाऽन्धा अवमन्वते च ॥ ७ ॥ प्रादेशिकेभ्यः परशासनेभ्यः, पराजयो यत्तव शासनस्य । खद्योतपोतद्युतिडम्बरेभ्यो, विडम्बनेयं हरिमण्डलस्य ॥ ८ ॥ शरण्य ! पुण्ये तव शासनेऽपि, संदेग्धि यो विप्रतिपद्यते वा । स्वादौ स तथ्ये स्वहिते च पथ्ये, संदेग्धि वा विप्रतिपद्यते वा ॥९॥ हिंसाद्यसत्कर्मपथोपदेशादसर्वविन्मूलतया प्रवृत्तेः । नृशंसदुर्बुद्धिपरिग्रहाच्च, ब्रूमस्त्वदन्यागममप्रमाणम् ॥ १० ॥