________________
22
.
26
अध्याय-२ ]
108 [स्वाध्यायदोहनसदेव सत् स्यात्सदिति त्रिधाऽर्थो, मीयेत दुर्नीतिनय-प्रमाणैः । यथार्थदर्शी तु नयप्रमाणपथेन दुर्नीतिपथं त्वमाऽऽस्थः ॥ २८ ॥ मुक्तोऽपि वाऽभ्येतु भवं भवो वा, भवस्थशून्योऽस्तु मितात्मवादे । षड्जीवकायं त्वमनन्तसङ्ख्यमाख्यस्तथा नाथ ! यथा न दोषः।।२९॥ अन्योऽन्यपक्षप्रतिपक्षभावाद्, यथा परे मत्सरिणः प्रवादाः । नयानशेषानविशेषमिच्छन् , न पक्षपाती समयस्तथा ते ॥ ३० ॥ वाग्वैभवं ते निखिलं विवेक्तुमाशास्महे चेन्महनीयमुख्य ! । लोम जङ्घालतया समुद्रं, वहेम चन्द्रद्युतिपानतृष्णाम् ॥ ३१ ॥
इदं तत्त्वाऽतत्त्वव्यतिकरकरालेऽन्धतमसे, जगन्मायाकारैरिव हतपरैहीं ! विनिहितम् । तदुद्धत्तुं शक्तो नियतमविसंवादिवचनस्त्वमेवातस्रातस्त्वयि कृतसपर्याः कृतधियः ॥ ३२ ॥
अयोगव्यवच्छेदद्वात्रिंशिका। अगम्यमध्यात्मविदामवाच्यं, वचस्विनामक्षवतां परोक्षम् । श्रीवर्द्धमानाभिधमात्मरूपमहं स्तुतेर्गोचरमानयामि ॥ १ ॥ स्तुतावशक्तिस्तव योगिनां न किं, गुणानुरागस्तु ममापि निश्चलः । इदं विनिश्चित्य तव स्तवं वदन् , न बालिशोऽप्येष जनोऽपराध्यति।२।