________________
श्री महादेवस्तोत्रम् ] 103
[ अध्याय-२पद्महस्तो भवेद् ब्रह्मा, शूलपाणिमहेश्वरः । चक्रपाणिर्भवेद् विष्णुरेकमूर्तिः कथं भवेत् ? ॥ ३१ ॥ कृते जातो भवेद् ब्रह्मा, त्रेतायां च महेश्वरः । द्वापरे जनितो विष्णुरेकमूर्तिः कथं भवेत् ? ॥ ३२ ॥ ज्ञानं विष्णुः सदा प्रोक्तं, चारित्रं ब्रह्म उच्यते । सम्यक्त्वं तु शिवं प्रोक्तमहन्मूर्तिस्त्रयात्मिका ॥ ३३ ॥ क्षिति-जल-पवन-हुताशन-यजमाना-ऽऽकार्श-सोम-सूर्याख्याः। इत्येतेऽष्टौ भगवति, वीतरागे गुणा मताः ॥ ३४ ॥ क्षितिरित्युच्यते क्षान्तिर्जलं या च प्रसन्नता। निःसङ्गता भवेद्वायुर्हताशो योगें उच्यते ॥ ३५ ॥ यजमानो भवेदात्मा, तपोदानदयादिभिः। अलेपकत्वादाकाशसङ्काशः सोऽभिधीयते ॥ २६ ॥ सौम्यमूर्तिरुचिश्चन्द्रो, वीतरागैः समीक्ष्यते । ज्ञानप्रकाशकत्वेन, आदित्यः सोऽभिधीयते ॥३७ ।। पुण्यपापविनिर्मुक्को, रागद्वेषविवर्जितः । श्रीअर्हद्भ्यो नमस्कारः, कर्तव्यः शिवमिच्छता ॥ ३८ ॥ अकारेण भवेद् विष्णू रेफे ब्रह्मा व्यवस्थितः । हकारेण हरः प्रोक्तस्तस्यान्ते परमं पदम् ॥ ३९ ॥