________________
अध्याय-२ ]
104 [स्वाध्यायदोहनअकार आदिधर्मस्य, आदिमोक्षप्रदेशकः । स्वरूपे परमं ज्ञानमकारस्तेन उच्यते ॥४०॥ रूपिद्रव्यस्वरूपं वा, दृष्ट्वा ज्ञानेन चक्षुषा । दृष्टं लोकमलोकं वा, रकारस्तेन उच्यते ॥४१॥ हता रागाश्च द्वेषाश्च, हता मोहपरीषहाः । हतानि येन कर्माणि, हकारस्तेन उच्यते ॥ ४२ ॥ सन्तोषेणाभिसम्पूर्णः, प्रातिहार्याष्टकेन च । ज्ञात्वा पुण्यं च पापं च, नकारस्तेन उच्यते ॥ ४३ ॥ भवबीजाङ्कुरजनना, रागाद्याः, क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा, हरो जिनो वा नमस्तस्मै ॥ ४४ ॥
अन्ययोगव्यवच्छेदद्वात्रिंशिका । अनन्तविज्ञानमतीतदोषमबाध्यसिद्धान्तममर्त्यपूज्यम् । श्रीवर्द्धमानं जिनमाप्तमुख्यं, स्वयम्भुवं स्तोतुमहं यतिष्ये ॥ १॥ अयं जनो नाथ ! तव स्तवाय, गुणान्तरेभ्यः स्पृहयालुरेव । विगाहतां किन्तु यथार्थवादमेकं परीक्षाविधिदुर्विदग्धः ॥ २ ॥ गुणेष्वसूयां दधतः परेऽमी, मा शिश्रियन्नाम भवन्तमीशम् । तथापि सम्मील्य विलोचनानि, विचारयन्तां नयवर्ती सत्यम् ॥३॥