________________
अध्याय-२ ]
102 [ स्वाध्यायदोहनकार्य विष्णु, क्रिया ब्रह्मा, कारणं तु महेश्वरः । कार्य-कारणसम्पन्ना, एकमूर्त्तिः कथं भवेत् ? ॥ २२ ॥ प्रजापतिसुतो ब्रह्मा, माता यद्यावती स्मृता । अभिजिज्जन्मनक्षत्रमेक मूर्तिः कथं भवेत् ? ॥२३ ॥ वसुदेवसुतो विष्णुर्माता च देवकी स्मृता । रोहिणी जन्मनक्षत्रमेकमूर्तिः कथं भवेत् ? ॥२४ ॥ पेढालस्य सुतो रुद्रो, माता च सत्यकी स्मृता । मूलं च जन्मनक्षत्रमेकमूर्तिः कथं भवेत् ? ॥ २५ ॥ रक्तवर्णो भवेद् ब्रह्मा, श्वेतवर्णो महेश्वरः । कृष्णवर्णो भवेद् विष्णुरेकमूर्तिः कथं भवेत् ? ॥ २६ ॥ अक्षसूत्री भवेद् ब्रह्मा, द्वितीयः शूलधारकः । तृतीयः शङ्खचक्राङ्क एकमूर्तिः कथं भवेत् ? ॥२७ ।। चतुर्मुखो भवेद् ब्रह्मा, त्रिनेत्रोऽथ महेश्वरः । चतुर्भुजो भवेद् विष्णुरेकमूर्तिः कथं भवेत् ? ॥ २८ ॥ मथुरायां जातो ब्रह्मा, राजगृहे महेश्वरः । द्वारामत्यामभूद् विष्णुरेकमूर्तिः कथं भवेत् ? ॥ २९ ॥ हंसयानो भवेद् ब्रह्मा, वृषयानो महेश्वरः । गरुडयानो भवेद् विष्णुरेकमूर्तिः कथं भवेत् ? ॥ ३० ॥