________________
वीर० स्तो० प्र० १९-२०]
97
[ अध्याय-२
॥९॥
यदेव सर्वसंसारिजन्तुरूपविलक्षणम् । परीक्षन्तां कृतधियस्तदेव तव लक्षणम् क्रोधलोभभयाक्रान्तं, जगदस्माद्विलक्षणः । न गोचरो मृदुधियां, वीतरागः कथश्चन
॥ १० ॥
१९
तव चेतसि वर्तेऽहमिति वार्ताऽपि दुर्लभा । मच्चित्ते वर्त्तसे चेत्त्वमलमन्येन केनचित् ॥ १ ॥ निगृह्य कोपतः काश्चित् , काश्चित्तुष्ट्यानुगृह्य च । प्रतार्यन्ते मृदुधियः, प्रलम्भनपरैः परैः ॥ २ ॥ अप्रसन्नात्कथं प्राप्यं, फलमेतदसङ्गतम् । चिन्तामण्यादयः किं न, फलन्त्यपि विचेतना:? ॥ ३ ॥ वीतराग ! सपर्यायास्तवाज्ञापालनं परम् । आज्ञाऽऽराद्धा विराद्धा च, शिवाय च भवाय च ॥ ४ ॥ आकालमियमाज्ञा ते, हेयोपादेयगोचरा । आश्रवः सर्वथा हेय, उपादेयश्च संवरः ॥ ५ ॥