________________
96
अध्याय-२ ]
[ स्वाध्यायदोहन
१८ न परं नाम मृदेव, कठोरमपि किञ्चन । विशेषज्ञाय विज्ञप्यं, स्वामिने स्वान्तशुद्धये ॥१॥ न पक्षिपशुसिंहादिवाहनासीनविग्रहः । न नेत्रवक्त्रगात्रादिविकारविकृताकृतिः ॥२॥ न शूलचापचक्रादिशस्त्राङ्ककरपल्लवः । नाङ्गनाकमनीयाङ्गपरिष्वङ्गपरायणः ॥ ३ ॥ न गर्हणीयचरितप्रकम्पितमहाजनः । न प्रकोपप्रसादादिविडम्बितनरामरः
न जगज्जननस्थेमविनाशविहिताऽऽदरः । न लास्यहास्यगीतादिविप्लवोपप्लुतस्थितिः तदेवं सर्वदेवेभ्यः, सर्वथा त्वं विलक्षणः । देवत्वेन प्रतिष्ठाप्यः, कथं नाम परीक्षकैः ?
॥६॥
अनुश्रोतः सरत्पर्णतृणकाष्ठादि युक्तिमत् । प्रतिश्रोतः श्रयद्वस्तु, कया युक्त्या प्रतीयताम् ? ॥ ७ ॥ अथवाऽलं मन्दबुद्धिपरीक्षकपरीक्षणैः । ममापि कृतमेतेन. वैयात्येन जगत्प्रभो ! ॥८॥