________________
बीत० स्तो० प्र० १७-१८ ]
95
[ अध्याय-२
स्वकृतं दुष्कृतं गर्हन् , सुकृतं चानुमोदयन् । नाथ ! त्वच्चरणौ यामि, शरणं शरणोज्झितः ॥१॥ मनोवाकायजे पापे, कृतानुमतिकारितैः। मिथ्या मे दुष्कृतं भूयादपुनः क्रिययान्वितम् ॥२॥ यत्कृतं सुकृतं किञ्चिद्रत्नत्रितयगोचरम् । तत्सर्वमनुमन्येऽहं, मार्गमात्रानुसार्यपि सर्वेषामर्हदादीनां, यो योऽर्हत्त्वादिको गुणः । अनुमोदयामि तं तं, सर्वं तेषां महात्मनाम् ॥४॥ त्वां त्वत्फलभूतान् सिद्धास्त्वच्छासनरतान्मुनीन् । त्वच्छासनं च शरणं, प्रतिपन्नोऽस्मि भावतः ॥५॥ क्षमयामि सर्वान्सत्त्वान्सर्वे क्षाम्यन्तु ते मयि । मैत्र्यस्तु तेषु सर्वेषु, त्वदेकशरणस्य मे एकोऽहं नास्ति मे कश्चिन्न चाहमपि कस्यचित् । त्वदंहिशरणस्थस्य, मम दैन्यं न किञ्चन ॥७॥ यावन्नाप्नोमि पदवी, परां त्वदनुभावजाम् । तावन्मयि शरण्यत्वं, मा मुचः शरणं श्रिते ॥८॥