________________
चीत० स्तो० प्र० १२-१३ ] 89
[ अध्याय-२महीयसामपि महान , महनीयो महात्मनाम् । अहो ! मे स्तुवतः स्वामी, स्तुतेर्गोचरमागमत् ॥ ८ ॥
-
पटुभ्यासाऽऽदरैः पूर्वं, तथा वैराग्यमाहरः । यथेह जन्मन्याजन्म, तत्सात्मीभावमागमत्
॥ १ ॥
दुःखहेतुषु वैराग्यं, न तथा नाथ ! निस्तुषम् । मोक्षोपायप्रवीणस्य, यथा ते सुखहेतुषु विवेकशाणौ वैराग्यशत्रं शातं तथा त्वया । यथा मोक्षेऽपि तत्साक्षादकुण्ठितपराक्रमम् यदा मरुन्नरेन्द्र श्रीस्त्वया नाथोपभुज्यते । यत्र तत्र रतिर्नाम, विरक्तत्वं तदापि ते ॥ ४ ॥ नित्यं विरक्तः कामेभ्यो, यदा योगं प्रपद्यसे । अलमेभिरिति प्राज्यं, तदा वैराग्यमस्ति ते ॥ ५ ॥ सुखे दुःखे भवे मोक्षे, यदौदासीन्यमीशिषे । सदा वैराग्यमेवेति, कुत्र नासि विरागवाम् ? ॥ ६ ॥