________________
अध्याय-२ ]
88 [स्वाध्यायदोहनशमोऽद्भुतोऽद्भुतं रूपं, सर्वात्मसु कृपाद्भुता । सर्वाद्भुतनिधीशाय, तुभ्यं भगवते नमः
॥
८
॥
निघ्नन्परीषहचमूमुपसर्गान्प्रतिक्षिपन् । प्राप्तोऽसि शमसौहित्यं, महतां कापि वैदुषी ॥ १ ॥ अरक्तो भुक्तवान्मुक्तिमद्विष्टो हतवान्द्विषः । अहो ! महात्मनां कोऽपि, महिमा लोकदुर्लभः? ॥ २ ॥ सर्वथा निर्जिगीषेण, भीतभीतेन चाऽऽगसः । त्वया जगत्रयं जिग्ये, महतां कापि चातुरी ॥ ३ ॥ दत्तं न किञ्चित्कस्मैचिन्नाऽऽत्तं किञ्चित्कुतश्चन । प्रभुत्वं ते तथाप्येतत्कला कापि विपश्चिताम् ॥ ४ ॥ यदेहस्यापि दानेन, सुकृतं नार्जितं परैः । उदासीनस्य तन्नाथ !, पादपीठे तवालुठत् ॥ ५ ॥ रागादिषु नृशंसेन, सर्वात्मसु कृपालुना । भीमकान्तगुणेनोचैः, साम्राज्यं साधितं त्वया ॥ ६ ॥ सर्वे सर्वात्मनाऽन्येषु, दोषास्त्वयि पुनर्गुणाः । स्तुतिस्तवेयं चेन्मिथ्या, तत्प्रमाणं सभासदः ॥ ७ ॥