________________
वीत. स्तो०प्र० १०-११] 87
[ अध्याय-२
मत्प्रसत्तेस्त्वत्प्रसादस्त्वत्प्रसादादियं पुनः । इत्यन्योन्याश्रयं भिन्धि, प्रसीद भगवन् ! मयि ॥ १ ॥ निरीक्षितुं रूपलक्ष्मी, सहस्राक्षोऽपि न क्षमः ।। स्वामिन् ! सहस्रजिह्वोऽपि शक्तो वक्तुं न ते गुणान् ॥ २॥ संशयानाथ ! हरसेऽनुत्तरस्वर्गिणामवि । अतःपरोपि किं कोपि, गुणःस्तुत्योऽस्ति वस्तुतः ? ॥३॥ इदं विरुद्धं श्रद्धत्तां, कथमश्रद्दधानकः ? । आनन्दसुखसक्तिश्च, विरक्तिश्च समं त्वयि ॥४॥ नाथेयं घट्यमानापि, दुर्घटा घटतां कथम् । उपेक्षा सर्वसत्त्वेषु, परमा चोपकारिता ॥५॥ द्वयं विरुद्धं भगवस्तव नान्यस्य कस्यचित् । निर्ग्रन्थता परा या च, या चोच्चैश्चक्रवर्तिता नारका अपि मोदन्ते, यस्य कल्याणपर्वसु । पवित्रं तस्य चारित्रं, को वा वर्णयितुं क्षमः ? ॥७॥