________________
अध्याय-२ ]
86 [ स्वाध्यायदोहनसुषमातो दुःषमायां, कृपा फलवती तव । मेरुतो मरुभूमौ हि, श्लाध्या कल्पतरोः स्थितिः ॥२॥
त्वच्छा
श्राद्धः श्रोता सुधीवक्ता, युज्येयातां यदीश ! तत् । त्वच्छासनस्य साम्राज्यमेकच्छत्रं कलावपि ... ॥ ३ ॥ युगान्तरेऽपि चेन्नाथ !, भवन्त्युच्छृङ्खलाः खलाः । वृथैव तर्हि कुष्यामः, कलये वामकेलये ॥४॥ कल्याणसिद्धयै साधीयान, कलिरेव कषोपलः । विनाग्निं गन्धमहिमा, काकतुण्डस्य नैधते ॥५॥ निशि दीपोऽम्बुधौ द्वीपं, मरौ शाखी हिमे शिखी। कलौ दुरापः प्राप्तोऽयं, त्वत्पादाब्जरजःकणः ॥ ६ ॥
6
युगान्तरेषु भ्रान्तोऽस्मि, त्वदर्शनविनाकृतः । नमोऽस्तु कलये यत्र, त्वदर्शनमजायत
बहुदोषो दोषहीनात्वत्तः कलिरशोभत । विषयुक्तो विषहरात्फणीन्द्र इव रखतः
॥ ८॥