________________
वीत स्तो० प्र०-७-८ ]
83
[ अध्याय-२
धर्माधर्मी विना नाङ्गं, विनाङ्गेन मुखं कुतः । मुखाद्विना न वक्तृत्वं, तच्छास्तारः परे कथम् ? ॥१॥
अदेहस्य जगत्सर्गे, प्रवृत्तिरपि नोचिता । न च प्रयोजनं किश्चित्स्वातन्त्र्यान्न पराज्ञया क्रीडया चेत्प्रवर्तेत, रागवान्स्यात्कुमारवत् । कृपयाऽथ सृजेत्तर्हि, सुख्येव सकलं सृजेत्
॥३॥
दुःखदौर्गत्यदुर्योंनिजन्मादिक्लेशविह्वलम् । जनं तु सृजतस्तस्य, कृपालोः का कृपालुता ? ॥४॥ कर्मापेक्षः स चेत्तर्हि, न स्वतन्त्रोऽस्मदादिवत् । कर्मजन्ये च वैचित्र्ये, किमनेन शिखण्डिना ? ॥ ५ ॥ अथ स्वभावतो वृत्तिरविता महेशितुः । परीक्षकाणां तर्वेष, परीक्षाक्षेपडिण्डिमः ॥६॥
12
13
सर्वभावेषु कर्तृत्वं, ज्ञातृत्वं यदि सम्मतम् । मतं नः सन्ति सर्वज्ञा, मुक्ताः कायभृतोऽपि च ॥ ७ ॥