________________
GK
मूलाधारे
तत् सर्वं आलोचयेत् अव्याक्षिप्तेन चेतसा ॥ १२३
आभोगः सर्वजनपरिज्ञातत्रतातीचारोऽनाभोगो न परैज्ञतिस्तस्मादनाभोगकृतं कर्माऽऽभोगमन्तरेण कृतातीचारस्तथाभोगकृतश्वातीचारश्च तथा यत्किचिन्मनसा च कृतं कर्म तथा कायवचनकृतं च तत्सर्वपालोचयेत् यत्किचिदनाभोगकृतं कर्माभोगकृतं कायवाङ्मनोभिः कृतं च पापं तत्सर्वमव्याक्षिप्तचेतसाडनाकुलितचेनसाऽऽलोचयेदिति ॥ १२३ ॥
आलोचनानापान्याह :
आलोचणमालुंचण विगडीकरणं च भावसुद्धी दु आलोचिद ही आराघणा अणालोचणे भज्जा ॥ आलोचनमालुंचनं विकृतिकरणं च भावशुद्धिस्तु । आलोचिते आराधना अनालोचने भाज्या ॥ १२४ ॥
-
आलोचनमालुं वनमपनयने विकृतीकरणमाविष्करणं भा शुद्वश्चेत्येोऽर्थः । अथ किमर्थमालोचनं क्रियत इत्याशंकायामाह – यस्मादालोचिते चरित्राचारपूर्वके गुरवे निवेदिते चेति श्राराधना सम्यग्दर्शनज्ञानचारित्रशुद्धिरनालोचने पुनर्दोषाणामनाविष्करणे पुनर्भाज्याऽऽराधना तस्मादालोचयितव्यमिति ।। १२४ ॥
आलोचने कालहरणं न कर्त्तव्यमिति प्रदर्शयन्नाह -