________________
४६८
मृलाचारेजीवस्तु प्रतिकामकः द्रव्ये क्षेत्रे च काले भावे च । प्रतिगच्छति येन यस्मिन् तत्तस्य भवेत् पूतिकमणं ___जीवस्तु प्रतिक्रामक: दोपद्वारागतकर्मविक्षपणशीलो जीवश्चेतनालक्षणः क प्रतिक्रामकः द्रव्यक्षेत्रकालभावविषये, द्रव्यमाहारपुस्तकभेषनोरकरणादिकं, क्षेत्र शयनासनस्थानचंक्रमणादिविषयो भूभागोंगुलवितस्तिहस्तक्रोशयोजनादिअमितः, कालः घटिकामुहूर्तसमयलवदिवसरात्रिपक्षमासवयनसंवत्सरसंध्यापर्वादिः, भावः परिणामरागद्वेषादिमदादिलक्षणः, एतद्विषयादतिचारान्निवर्तनपरो जीवः प्रतिक्रामक इत्यु. च्यते ज्ञेयाकारवहिव्याहत्तरूपः, अथवा द्रव्यक्षेत्रकालभावविषयादतिचारापतिगच्छति निवर्चते स प्रतिकामकोऽथवा येन परिणामेनाक्षरकदंबकेन वा प्रतिगच्छति पुनर्याति य. स्मिन् व्रतशुद्धिपूर्वकस्वरूपे यस्मिन् वा जीवे पूर्वव्रतशुद्धिपरिणतेऽतीचारं परिभूतं स परिणामोऽक्षरसमूहो वा तस्य व्रतस्य तस्य वा व्रतशुद्धिपरिणतस्य जीवस्य भवेत्प्रतिक्रमणं व्रतविषयमतीचारं येन परिणामेन प्रक्षाल्य प्रतिगच्छति पूर्ववतशु. दौ स परिणामस्तस्य जीवस्य भवेत्सतिक्रमणमिति । मिथ्यादुष्कृताभिधानादभिव्यक्तमतिक्रियं द्रव्यक्षेत्रकालभावमाश्रिस्य प्रतिक्रमणमिति वा ।। ११८॥
प्रतिक्रमितव्यं तस्य स्वरूपमाह--- पडिकामेदबंद