SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ मूलाबारे- ... कादव केण कस्स व कधे व कहिं व कदिखुचो॥७९॥ कृतिकर्म चितिकर्म पूजाकर्म च विनयकर्म च । कर्तव्यं केन कस्य वा कथं वा कस्मिन् वा कृतकृत्यः पूर्वगाथार्थेन वंदनाया एकार्थः कथ्यतेऽपरार्दैन तद्विकला इति । कृत्यते छिद्यते अष्टविध कर्म येनाक्षरकदंबकेन परिणामेन क्रियया वा तस्कृतिकर्म पापविनाशनोपायः । चीयते समेकीक्रियते संचीयते पुण्यकर्म तीर्थकरत्वादि येन तचितिकर्म पुण्यसंचयकारणं पूज्यंतेऽयन्तेऽहंदादयो येन तपूजाकर्म बहुवचनोच्चारणस्रक्चंदनादिकं । विनीयंते निराक्रियन्ते संक्रमणोदयोदीरणादिभावेन प्राप्यंते येन कर्माणि तद्विनयकर्म शुश्रूषणं तक्रिया कर्म कर्तव्यं केन कस्य कर्तव्यं कथमिव केन विधानेन कर्त्तव्यं यस्मिन्नवस्थाविशेषे कर्त्तव्यं कतिवारान् ॥ ७ ॥ तथा;कदि ओणदं कदि सिरं कदिए आवत्तगेहिं पारसुद्धं। कदिदोसविप्पमुकं किदियम्मं होदि कादव्वं ॥८॥
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy