________________
मूलाचारेधर्मतीर्थकरा इति पदं व्याख्यातुकामः प्राहतिविहो य होदि धम्मो
सुदधम्मो अस्थिकायधम्मो य । तदिओ चरित्तधम्मो
सुदधम्मो एत्थ पुण तित्थं ॥ ६०॥ त्रिविधश्च भवति धर्मः श्रुतधर्मः आस्तिकायधर्मश्च । तृतीयः चारित्रधर्मः श्रुतधर्मः अत्र पुनः तीर्थं ६० ___धर्मस्तावत्रिप्रकारो भवति । श्रुतधर्मोऽस्तिकायधर्मस्तुतीयश्चारित्रधर्मः । अत्र पुनः श्रुतधर्मस्तीर्थान्तरं संसारसागरं तरन्ति येन तत्तीर्थमिति ।। ६० ॥
तीर्थस्य स्वरूपमाहदुविहं च होइ तित्थं णादव्वं दब्वभावसंजुत्वं । एदेखि दोहंपि य पत्तेय परूवणा होदि ॥ ६१ ॥ द्विविधं च भवति तीर्थ ज्ञातव्यं द्रव्यभावसंयुक्तं । एतयोः द्रयोरपि प्रत्येकं प्ररूपणा भवति ॥ ६१ ॥
द्विविधं च भवति तीर्थ द्रव्यसंयुक्तं भावसंयुक्तं चेति । द्रव्यतीर्थपपरमार्थरूपं । मावतीर्थ पूनः परमार्थभूतमन्यापेक्षाभावात् । एतयोयोरपि तीर्थयोः प्रत्येक प्ररूपणा भवति ॥ ६१॥