________________
मूलाचारे
४२४ क्षेत्रलोकं विजानीहि अनंतजिनदर्शितं ॥ ४९॥
आकाशं सपदेशं प्रदेशः सह । ऊर्ध्वलोकं मध्यलोकमधोलोकं च । एतत्सर्व क्षेत्रलोकमनन्तजिनदृष्टं विजानीहीति ॥४६॥
चिन्हलोकमाहजंदि संठाणं दवाण गुणाण पजयाणं च । चिण्हलोगं वियाणाहि अणंतजिणदेसिदं॥५०॥ यत् दृष्टं संस्थानं द्रव्याणां गुणानां पर्यायाणां च । चिह्नलोकं विजानीहि अनंतजिनदर्शितं ॥ ५० ॥
द्रव्यसंस्थानं धर्माश्मयोलौकाकारेण संस्थानं । कालद्रव्यम्याकाशप्रदेशस्वरूपेण संस्थानं । आकाशस्य केवलज्ञानस्वरूपेण संस्थ नं । लोकाकाशस्त्र गृहगुहादिस्वरूपेण सं. स्थानं । पुद्गलद्रव्यम्य लोकस्वरूपेण संस्थान द्वीपनदीसा. गरपर्वतपृथिव्यादिरूपेण संस्थानं । जीवद्रव्यस्य समचतुरसन्यग्रोधादिस्वरूपेण संस्थानं । गुणानां द्रव्याकारेण कृ. ष्णनीलशुक्लादिम्वरूपेण वा संस्थानं । पर्या गणां दीर्घहस्त्रवृत्तव्यस्रचतुरस्रादिनारकत्वतिर्यक्त्वमनुष्यत्वदेवत्वादिस्वरूपेण संस्थानं । यदृष्टं संस्थानं द्रव्याणां गुणानां पर्यायाणां च चिन्हलोकं विनानीहीति ॥ ५० ॥