SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ ४२२ मूलाचार जीवाश्चेतनावन्तः । अजीवाः कालाकाशधर्माधर्माः पु. द्गलाः । रूपिणो रूपरसगन्धम्पर्शशब्दवन्तः पुद्गलाः । अरूपिणः कालाकाशधर्माधर्मा जीवाश्च । सप्रदेशाः सर्वे जी. वादयः । अप्रदेशौ कालाणुपरमाणू च । एनं सर्वलोकं द्रव्यलोकं विजानीहि, अक्षयसर्वज्ञदृष्टो यत इति ॥४७॥ तथेममपि द्रव्यलोकं विजानीहीत्याह--- परिणाम जीव मुत्तं सपदसं एकखेत्त किरिओय। णिचं कारण कत्ता सव्वगदिदराम अपवेसो॥४८ परिणामि जीवो मूर्त सप्रदेशं एकक्षेत्रं क्रियावत् च । नित्यः कारणं कर्ता सर्वगत इतरस्मिन् अप्रवेशः ४८ परिणामोऽन्यथाभावो विद्यते येषां ते परिणामिनः । के ते जीवपुद्गलाः । शेषाणि धर्माधर्मकालाकाशान्यपरिणामीनि कुतो द्रव्यार्थिकनयापेक्षया व्यञ्जनपर्यायं चाश्रित्यैतदुक्तं । पर्यायाथिकनयापेक्षयान्वर्थपर्यायमाश्रित्य सर्वेऽपि प. रिणामापरिणामात्मका यत इति । जीवो जीवद्रव्यं चेतनालक्षणो यतः । अजीवाः पुनः सर्वे पुद्गलादयो ज्ञातृत्वहष्ट्रत्वा द्यभागादिति । मूर्त पुद्गलद्रव्यं रूपादिमत्वात् । शेषाणि जी. वधर्माधर्मकालाकाशान्यमूनि रूपादिविरहितत्वात् । सप्रदेशानि सांशानि जीवधर्माधर्मपुद्गलाकाशानि प्रदेशबन्धद र्शनात । अप्रदेशाः कालाणवः परमाणुश्च प्रचयाभावाद -
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy