________________
मूलाचारेनोऽभ्य स्वादो भोजनस्येत्येवमर्थ न भुंक्ते । न शरीरस्योपचयाथै, शरीरं मम पुष्टं मांसद्धं वा भवत्विति न भुंक्ते । नापि तेजोऽर्थ, शरीरस्य मम दीप्तिः स्यादो वेति न भुंजीताहारमिति । यद्येवमर्थ न सुक्त किमर्थं तहि भुक्तेऽत पाहशानार्थ, ज्ञानं स्वाध्यायो मम प्रवर्ततामिति भुक्ते । संयमार्थ, संयमो मम स्यादिति भुक्ते । ध्यानार्थ चैत्र, पाहारमन्तरेण न ध्यान प्रवर्तते यतो भुंक्ते यतिरिति । तथापि भुंक्ते इत्यत आह ॥ २॥ णवकोडीपरिसुद्धं असणं बादालदोसपरिहोणं। संजोजणाय हीणं पमाणसहियं विहिसुदिण्णं ॥ नवकोटिपरिशुद्ध अशनं हाचत्वारिंशदोषपरिहीनं । संयोजनया हीनं प्रमाणसहितं विधिसुदत्तं ॥६३॥
नवकोटिपरिशुद्धं । कास्ताः कोटयो मनसा कृतकारितानुमतानि तिस्रः कोटयः, तथा वचसा कृतकारितानुमतानि तिस्रः कोटयः, तथा कायेन कृतकारितानुसतानि तिस्रः कोटय एताभिः कोटिभिः परिशुद्धमशनं, द्विचत्वारिंशद्दोषपरिहोणं उद्गमोत्पादेषणादोषरहितं, संयोजनयारहितं, प्रमाणस: हितं, विधिना दत्तं प्रतिग्रहोश्चस्थानपादोदकार्चनाप्रणमनमनोवचनकायशुद्धयशनशुदिभिदत्तमुपनीतं, श्रद्धाभक्तितुष्टिवि. शानालुब्धताक्षपाशक्तियुक्तेन दात्रेति ॥ ६३ ॥ तथा