SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ मूलाचारे मुदगुणगुरुगुरू- तपति दहति शरीरेन्द्रियाणि तपो द्वादशमकारमनशनादिकं श्रुतमंगपूर्वादिरूपं मतिपूर्वकं गुणा व्याकर तर्कादिज्ञानविशेषाः, तपश्च श्रुतं च गुणाश्च तपः श्रुतगुणास्तैर्गुरवो महान्तस्तपः श्रुतगुणगुरवः, गुरुश्च येन दीक्षादत्ता, तेषां द्वादशविधतपोधिकानां श्रुताधिकानां, गुशाधिकानां स्वगुरोः, अर्हत्सिद्धप्रतिमानां च रादीणंरात्रयधिकानां दीक्षया महतां च । किदियम्मेण - क्रियाकर्मणा कायोत्सर्गादिकेन सिद्धभक्तिश्रुतभक्तिगुरुभक्तिपूर्वकेण इयरेणय- इतरेण च श्रुतभक्त यादिक्रिया पूर्वकमन्तरेण शिरः प्रणामेन मुंडवंदनया । तियरणसंकोचणं - त्रयश्च ते करणाश्च त्रिकरणा मनोवाक्कायक्रियाः तेषां संकोचनं त्रिकरणसंकोचनं मनोवाक्कायशुद्ध क्रियं मनःशुद्ध्या वाक्शुद्धया कायशुद्धया इत्यर्थः । पणमो -प्रणामः स्तवनम् । अर्हत्सिद्धमतिमानां तपोगुरूणां श्रुतगुरूणां गुणगुरूणां दीक्षागुरूणां दीक्षया महत्तराणां कृतकर्मणेतरेण च त्रिकरणसंकोचनं यथा भवति तथा योऽयं प्रणामः क्रियते सा वन्दना नाम मूलगुण इति ॥ 1 अथ किं प्रतिक्रमणमित्याशंकायामाह-दव्वे खेचे काले भावे य कयावराहसोहणयं । दिणगरहणजुत्तो मणवचकायेण पडिकमणं ॥ द्रव्ये क्षेत्रे काले भावे च कृतापराधशोधनम् । ३२ -.
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy