________________
पिंडशुद्धघधिकारः ॥ ६॥ ३६३
संववहरणदायगुम्मिस्से। अपरिणदलितछोडिद
एषणदोसाइं दस एदे ॥४३॥ शकितम्रक्षितनिक्षिप्तपिहितसंव्यवहरणदायकोन्मिश्राः अपारणतलिप्तत्यक्ताः अशनदोषा दश एते॥
शंकयोत्पन्नः शंकित:, किमयमाहारोऽधःकर्मणा निष्पम उत नेति शंकां कृत्वा भुंक्त यस्तस्य शंकितनामाशनदोषः। तथा म्रक्षितस्तैलाद्यभ्यक्तस्तेन भाजनादिना दीयमानमाहारं यदि गृगहाति म्रतितदोषो भवति । तथा निक्षिप्तः स्थापितः, सचित्तादिषु परिनिक्षिप्तमाहारं यदि गृगहाति साधुस्तदा तस्य निक्षिप्तदोषः । तथा विहितश्छादितः अप्रासुकेन प्रासुकेन च महता यदवष्टब्धमाहारादिकं तदावरणमुक्षिप्य दीयमानं यदि गृण्हाति तदा तस्य पिहितनामाशनदोषः । तथा संव्यवहरणं दानार्थ संव्यवहारं कृत्वा यदि ददाति तद्दानं यदि साधुयहाति तदा तस्य संव्यवहरणनामाशनदोषः तथा दायकः परिवेषकः, तेनाशुद्धन दीयमानमाहारं यदि मृगहाति साधुस्तदा तस्य दायकनामाशनदोषः । तथोन्मिश्रोमासुकेन द्रव्येण पृथिव्यादिसचितेन मिश्र उन्मिश्र इत्युच्यते तं यद्यादत्ते उन्मिश्रनामाशनदोषः । तथाऽपरिणतोऽविध्वस्तोज्न्यादिकेनापकस्तमाहारं पानादिकं वा यद्यादत्तेड