________________
३४०
भूलाचारे
वं उत्कृष्टा ( उत्कर्ष्या) टम्यां दादात्येतदिवस परानृत्य नातं प्राभृतं तथा चैत्रशुक्लपक्षे देयं मत्तञ्चैत्रांधकारपक्षे ददाति । अन्धकारक्षे वा देयं शुक्लपक्षे ददाति पक्षपरावृतिनातं प्राभृतं । तथा चैत्रमासे देयं फाल्गुने ददाति फाल्गुने देयं वा चैत्रे ददानि तन्मासपरिवृत्तिजातं प्राभृतं । तथा परुचने वर्षे देयं यत्तदधुनातने वर्षे ददाति । अधुनातने बर्षे यदिष्टं रुत्तने ददाति तद्वर्षपरावृत्तिजातं प्राभृतं । तथा सूक्ष्मं चप्रावर्तितं द्विविधं पूर्वाग्रहवेलायामपरागृहवेलायां मध्यवेलायामिनि । अपरायवेलायां दातव्यमिति स्थितं प्रकरणं मंगलं संयतागमनादिकखेनापकृष्य पूर्वाग्रहवेलायां ददाति तथा मध्यान्हे दातव्यमिति स्थितं पूर्वाह्णे ऽपराह्ने वा ददाति एनं प्रावर्तितदशेषं कालहानिवृद्धि परिवृत्या बादरसूक्ष्मभेद भिअं जानीहि क्लेशबहुविधातारं भदोषदर्शनादिति ॥ १४ ॥ प्रादुष्कारदोषमाह
पादुकारो दुविहो
संकमण पयासणा म बोधव्वो ।
भायण भोयणदीणं मंडवविरलादियं कमसो ॥ १५ ॥
प्रादुष्कारो द्विविधः संक्रमणं प्रकाशनं च बोधव्यं । भाजनभोजनादीनां मंडपविरलनादिकं क्रमशः ॥