________________
पंचाचाराधिकारः ॥५॥
२८१ सम्बध्यते । कनकावली चैकावली च कनकावल्येकावल्यौ तौ विधी पादिर्येषां तपोविधानानां कनकैकावल्यादीनि । आदिशब्देन सुरजमध्य-विमानपंक्ति-सिंहनिष्कीडितादीनां ग्रह। कनकावल्यादीनां प्रपंच. टीकाराधनायां दृष्टव्यो विस्तरमयानेह प्रतन्यते । अनाहारोऽनशनं षष्ठाष्टमदशमद्वादशैर्मासाधमासादिभिश्च यानि क्षमणानि कनकैकावल्यादीनि च यानि . तपोविधानानि तानि सर्वाग्यनाहारो यावदुत्कृष्टेन पगपासास्तत्सर्व साकांक्षमनशनमिति ॥ १५१ ।। निराकांक्षस्थानशनस्य स्वरूपं निरूपयन्नाहभचपइण्णा इंगिणि
पाउवगमणाणि जाणि मरणाणि । अण्णेवि एवमादी
बोधव्वा णिरवकंखाणि ॥१५२॥ भक्तप्रतिज्ञा इंगिनी प्रायोपगमानि यानि मरणानि । अन्यान्यपि एवमादीनि बोडव्यानिनिरवकांक्षाणि॥
भक्तपत्याख्यानं व्याद्यष्टचत्वारिंशनिर्यापकैः परिचर्यमाणस्यात्मपरोपकारसव्यपेक्षस्य यावज्जीवमाहारत्यागः । इहागणीमरणं नामात्मोपकारसव्यपेक्ष परोपकारनिरपेक्ष । प्रायो
१ संस्कृतहरिवंशपुराणे च दृष्टव्यं ॥