________________
पंचोचाराधिकारः ॥५॥ २७६ कायस्स वि परितावो
विवित्तसयणासणं छटुं॥ १४९॥ अनशनं अवमौदर्य रसपरित्यागश्च वृत्तिपरिसंख्या । कायस्य च परितापो विविक्तशयनासनं षष्ठं॥ १४९॥
अनशनं चतुर्विधाहारपरित्यागः । अवमौदर्यमतृप्तिभोजनं । रसानां परित्यागोरसपरित्यागः स्वाभिलषितस्निग्धाधुम्लकटुकादिरसपरिहारः। वृत्तेः परिसंख्या वृत्तिपरिमख्या गृहदायकभाजनौदनकालादीनां परिसंख्यानपूर्वको ग्रहः । कायस्य शरीरस्य परितायः कर्मक्षयाय बुद्धिपूर्वकं शोषणं आता पनाभ्रावकाशवक्षमूलादिभिः । विविक्तशयनासनं स्त्रीपशुषबढक विवर्जितं स्थानसेवनं षष्ठमिति ॥ १४६ ॥ अनशनस्य भेदं स्वरूपं च प्रतिपादयन्नाह-- इचिरियं जावजीवं
दुविहं पुण अणसणं मुणेयव्वं । इत्तिरियं साखं
णिरावकंखं हवे बिदिथं ॥१५०॥ इत्तिरियं यावज्जीवं द्विविधं पुनः अनशनं ज्ञातव्यं । इत्तिरिय साकांक्षं निराकांक्ष. भवेत् द्वितीयं ।। १५० ॥