________________
पंचाचाराधिकार ॥५॥ २७१ मणवचकायपउची भिक्खू सावज्जकज्जसंजुत्ता खिप्पं णिवारयंतो तीहिंदु गुत्तोहवदि एसो १३४ मनोवाक्कायप्रवृत्तिं भिक्षुः सावद्यकार्यसंयुक्तां । क्षिप्रं निवारयन् त्रिभिस्तु गुप्तो भवति एषः॥ १३॥
प्रतिशब्दः प्रत्येकमभिसम्बध्यते । मनःप्रवृत्तिं वाक्प्रवृत्ति कायप्रवृत्तिं च । किविशिष्टां, सावद्यकार्यसंयुक्तां हिंसादिपापविषयां । भिक्षुः साधुः शीघ्र निवारयस्त्रिगुप्तो भवत्येषः । गुप्तः सामान्यलक्षणमेतत् ॥ १३४ ॥
विशेषलक्षणमाहजागयादिणियत्ती मणस्स जाणाहितं मणोगुत्ती अलियादिणियत्ती वामोणंवा होदिवचिगुत्ती॥ या रागादिनिवृत्तिः मनसः जानीहि तां मनोगुप्ति । अलीकादिनिवृत्तिः वा मौनं वा भवति वचोगुप्तिः १३५ . गगद्वेषादिभ्यो पनसो या निवृत्तिश्चेतसा तेषां परिहारस्तां जानीहि मनोगुप्तिं मनःसंवृत्तिं । अलीकादिभ्यश्चासत्याभिप्रायेभ्यश्च वचसो या निवृत्तिः मौनं ध्यानाध्ययनचिंतनं च यत्तष्णींभावेनासौ वा वाग्गुप्तिमवति ॥ १३५ ।।
कायगुप्त्यर्थमाह