SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ पंचाचाराधिकारः ॥५॥ परपीडोस्पते परलोकं प्रतीहलोकं च प्रति, तत्तद्वचनं सत्यमपि त्याज्यं रागद्वेषसहितत्वात् । सत्यमपि हिंसादिदोषसहितं न वाच्यमिति भावसत्यं । औपम्येन च युक्तं यद्वचनं तदपि सत्यं जानीहि । यथा पल्योपमादिवचनं । उपमामात्रमेतत् । न हि कुशलो योजनमात्रः केनापि रोपच्छेदैः पूर्यते । एवं सागरो रज्जुः प्रतरांगुलं सूच्यंगुलं घनांगुलं श्रेणी लोकमतगे लोकश्चन्द्रमुखी कन्या इत्येवपादयः शब्दाः उपमानवचनानि उपमासत्यानीति वाच्यानि । न तत्र विवादः कार्यः । इत्येतद्दशपकारं सत्यं वाच्यं । तथा सन्धिनामतद्धितसमासाख्यातकृदौणादियुक्तं, पक्षहेतुदृष्टान्तोपनयनिगमनसहितं, छलजातिनिग्रहस्थानादि. विवर्जितं, लोकसमयस्त्रवचन विरोधरहितं, प्रमाणोपपन्न, नैगमादिनयपरिगृहीतं, जातियुक्तियुक्तं, मैत्रीप्रपोदकारुण्यमाध्यस्थवचनसहितं, अनिष्ठुरमकर्कशमनुद्धनमर्थवत्, श्रवणकान्तं, सुललिताक्षरपदवाक्पविरचितं, हेयोपादेयसंयुक्तं-इत्यंभूतं सत्यं वाच्यं । लिंगसंख्याकाल कारकपुरुषोपग्रहसमेतं धातुनिपातबलाबलच्छन्दोऽलंकारादिसमन्वित, वाच्यमिति सम्बन्धः ॥ ११६ ॥ एतद्वयतिरिक्तमसत्यमिति प्रतिपादयन्नाहतविवरीदं मोसं तं उभयं जत्थ सच्चमोसं तं। तविवरीदा भासा असच्चमोसा हवदि दिट्ठा ११७
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy