________________
पंचाचाराधिकारः ॥५॥ २५५ का । यद्यपि तत्रान्यानि रक्तादीनि सम्भवन्ति रूपाणि, तथापि श्वतेन वर्णेनोत्कृष्टतरा बलाका, अन्येषामविवक्षितत्वादिति रूपसत्यं द्रव्यार्थिकनयापेक्षया वाच्यमिति ॥११३॥ अण्णं अपेक्खसिद्धं पडुच्चसचजहा हवदि दिग्ध। ववहारण य सच्चंरज्झदि कूरो जहा लोए ११४ अन्यदपेक्ष्यसिद्धं प्रतीत्यसत्यं यथा भवति दीर्घ । व्यवहारेण च सत्यं रध्यते क्रूरो यथा लोके ॥ ११४॥ ___अन्यद्धस्तुजातमपेक्ष्य किंचिदुच्यमानं प्रतीत्यसत्यं भवति । यथादीर्घोऽयमित्युच्यते । वितस्तिमात्राद्धस्तमात्रं दीर्घ तथा द्विहस्तपात्रात्पंचहम्तमात्रं । पंचहस्तपात्राद्दशहस्तमात्रं । एवं यावन्मेषानं । तथैवं (व) इस्ववृत्तचतुरस्रादि, कुरूप-सुरूप-पंडित मूख-पूर्वागरादिकनपेक्षासिंद्ध निष्पन्नमपेक्ष्य सत्यमित्युच्यते । न तत्र विवादः कार्यः । तथा, रध्यदे पच्यते क्रूर ओदनः मण्डकाः घृतपूराः इत्यादि लोके वचनं व्यवहारसत्यमिति वाच्यं । न तत्र विवादः कार्यः । यद्यौदनः पच्यते भस्म भवति, मण्डका यदि पच्यन्ते भस्मीभवन्तीति कृत्वेति व्यवहारसत्यं वचनं सत्यमिति ॥ ११४ ॥ संभावणा य सच्चं जदि णामेच्छेज एव कुजंति । जदि सको इच्छेजोजंबूदीवं हि पल्लत्थे ॥११५ संभावना च सत्यं यदि नाम इच्छेत् एवं कुर्यात् ।.