________________
मूलाचारे
२५४ बहुजनसम्मतमपि भवति यत्तु लोके यथा देवी ११२ - जनपदसत्यं देशसत्यं । यथौदनादिरुच्यते सर्वभाषाभिः द्रविडभाषया चौर इत्युच्यते । कर्णाटभाषया कूल इत्युच्यते । गौडभाषथा भक्तमित्युच्यते । एवं नानादेशभाषाभिरुच्यमान अोदनो जनपदमत्यपिति जानीहि । बहुभिर्जनैर्यत्सम्मतं तदपि सत्यमिति भवति । यथा महादेवी, मानुष्यपि लोके महादेवीनि । यथा देवो वर्षतीत्यादिकं वचनं लोकसम्मतं सत्यमिति वाच्यं । न प्रतिबन्धः कार्यः एवं न भवतीति कृत्वा । प्रतिबन्धे सत्यमसत्यं स्यादिति ॥ ११२ ॥ ठवणा ठविदं जह देवदादिणामं च देवदत्तादि । उक्कडदरात वण्णे रूवे सेओ जध बलाया ११३॥ स्थापना स्थापितं यथा देवतादि नाम च देवदत्तादि। उत्कटतर इति वर्णेन रूपे श्वेता यथा बलाका॥११३॥ . यद्यपि देवतादिप्रतिरूपं स्थापनया स्थापित । तथा च देवदत्तादिनाम । न हि तत्र देवतादिस्वरूपं विद्यते । नापि तं (१) देवैर्दत्तोऽसौ । तथापि व्यवहारनयापेक्षया स्थापनासत्यं,नामसत्यं च सत्यमिन्युच्यते सद्भिरिति । अहमतिमासिद्धपतिमादि तथा नागयज्ञेन्द्रादिप्रतिमाश्च तत्सर्व स्थापनासत्यं । तथा देवदत्त इन्द्रदत्तो यज्ञदत्तो विष्णु मित्र इत्येवमादिवचनं नामसत्यमिति । तथा वर्णेनोत्कटतरेति श्वेता बला