________________
पंचाचाराधिकारः ॥५॥
२४७ गुप्तिः। एतासु यत्पणिधानं स युक्तोष्टप्रकारश्चारित्राचार इति। शेष पुनर्यदप्रशस्तं प्रणिशनं तद्विविधमिन्द्रियनोइंद्रियभेदेन ॥
___इन्द्रियप्रणिधानारूपप्रतिपादनार्थमाहसहरसरूवगंधे फासे यमणोहरे य इदरे य । जंरागदोसगमणं पंचविहं होइ पणिधाणं १०२ शब्दरसरूपगंधे स्पर्शे च मनोहरे च इतरे च । यत् रागद्वेषगमनं पंचविधं भवति प्रणिधानं ॥१०२॥ - शब्दरसरूपगन्धस्पर्शेषु मनोहरेषु, शोभनेषु, इतरेष्वशोभनेषु, यद्रागद्वेषयोर्गमनं प्रापणं तत्पंचप्रकारमिन्द्रियप्रणिधानं भवति । स्त्रीपुरुषादिप्रत्तेषु षड्गर्षभ-गान्धार-मध्यम-पंचम-धैवत-निषादभेदभिन्नेषु प्रारोह्यवरोहिस्थायिसंचारिचतुवर्णयुक्तेषु षडंलकारद्विविधकाकुभिन्नषु मूर्च्छनास्त्यानादिप्रयुक्तेषु सुस्वरेषु यद्रागपापणं, तथा कोकिलमयूरभ्रमरादिशब्देषु वीणारावणहस्तवंशादिशब्देषु यद्रागकरणं, तथोष्ट्रखर-करभादिप्रयुक्तेषु दुःस्वरेषु उरकण्ठशिरस्विस्थानभेदभिन्नमनिष्टेषु यद् द्वेषकरणं । तथा तिक्तकंटुकपायाालमधुरभेदभिन्नेषु सुप्रयुक्तेषु मनोहरेष्वमनोहरेषु तीव्रतीव्रतरतीव्रतम मन्दमन्दतरमन्दतमेषु गुडखंडदधिघृतपयःपानादिगतेषु निवकांजीरविषखलयवसकुष्ठादिगतेषु च रसेषु यदागद्वेषयोः करणं । तथा स्त्रीपुरुषादिगतेषु गौरश्यामादिवर्णेषु रूपेषु