________________
२८८
मूलाचार
समभंग-समः सदृशो भंगःछेदो यस्य तत्समभंग त्वहितं । . अहीरुह-न विद्यते हीरुकं बालरूपं यस्य तदहीहं पुनः सूत्राकारादिवर्जितं मंजिष्ठादिकं । छिन्नरुह-छेदेन रोहतीति च्छेदरुहं छिन्नो भिन्नश्च यो रोहमागच्छति । साहारणंसरीरं-तत्साधारणं सामान्यं शरीरं साधारणशरीरं । तविवरीयं (च)-तद्विपरीतं च साधारणलक्षणविपरीतं पत्तेय-प्रत्येकं प्रत्येकशरीरं ॥ १६ ॥
किंभृतमिति पृष्टेऽत उत्तरमाहहोदिवणप्फदि वल्ली रुक्खतणादी तहेव एइंदी। तेजाण हरितजीवा जाणिचा परिहरेदवा॥२० भवति वनस्पतिः वल्ली वृक्षतृणादीनि तथैव एकेंद्रियाः तान् जानीहि हरितजीवान ज्ञात्वा परिहर्तव्याः॥२० ___होदि-भवति । वणप्फदि-वनस्पतिः फलवान् वनस्प. तिज्ञेयः । वल्ली-वल्लरी लता । रुक्ख-वृक्षः पुष्पफलोपगतः। तणादी-तृणादीनि । तहेव-तथैव । एइंदी-एकेन्द्रियाः । अथवा साधारणानामेतद्विशेषणं पूर्व प्रत्येककायानां एते मूलादिवीजाः कन्दादिकायाः साधारगशरीराः प्रत्येककायाश्च सूक्ष्माः स्थूलाश्च ये व्याख्यातास्तान् हरितकायान् जानीहि तथा एतेऽन्ये च पृथिव्यादयश्चैकेन्द्रिया ज्ञातव्याः परिहर्तव्याश्चान्तदीपकत्वात् । कथमेते जीवा इति चेन्नैषदोषः, आगमाद