SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ .. मूलाचार-. र्भागः पालिभद्रादिकः । पतं-पत्रं अङ्कुरोर्वावस्था। पवाल-प्रवालं पल्लवं पत्राणां पूर्वावस्था । पुष्फ-पुष्पं फलकारणं । फलं-पुष्पकार्य पूगफलतालफलादिकं । गुच्छा-गुच्छो बहूनां समूह एककालीनोत्पत्तिः जातिमल्लिकादिः । गुम्मगुल्मं करंजकंथारिकादिः। वल्ली-वल्लरी श्यामा लतादिका तणाणि--तृणानि । तह- तथा । पन्च--पर्व ग्रंथिकयोमध्यं वेत्रादि । काया--कायः स प्रत्येकमभिसम्बध्यते कन्द-. कायो मूलकाय इत्यादि, एते सम्मूर्छिमा: प्रत्येकानन्तकायाश्च मूलमादायपत्रमादायोत्पद्यन्त इत्यर्थः । अथवा मूलकायावयवः कन्दकायावयवः इत्यादि, पूर्वाणां वीजमुपादानं कारणं एतेषां पुनः पृथिवी सलिलादिकं उपादानकारणं तथा च दृश्यते शृङ्गाच्छरः गोमयाच्छालूकं बीजमन्तरेणोत्पत्तिः पुष्पमन्तरेण च यस्योत्पतिः फलानां स फल इत्युच्यते, यस्य पुष्पाण्येव भवन्ति स पुष्प इत्युच्यते, यस्य पत्राण्येव न पुष्पाणि न फलानि स पत्र इत्युच्यते इत्यादि सम्बन्धा कर्तव्य इति ॥ १७॥ सेवालपणगकेण्णग कवगो कुहणोय बादरा काया सब्वेवि सुहमकाया सव्वत्थ जलथलागासे ॥१८ शैवालं पणकं कृष्णकं कवकः कुहनश्च बादराः कायाः सर्वेपि सूक्ष्मकायाः सर्वत्र जलस्थलाकाशे ॥१८॥ सेवाल-शैवलं उदकगतकायिका हरितवर्णी । पणग
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy