________________
पंचाचासधिकारः ॥ ५ ॥
१८५
माश्च मूलाद्यभावेऽपि येषां जन्म। भणिया- भणिताः कथिताः क भागमे जिनवरैः । पत्तेया- प्रत्येकजीवाः पूगफल-नालिकेरादयः । अांतकाया य - अनन्तकायाश्च स्नुहीगुडूच्यादय:, ये छिन्ना भिन्नाश्च प्रारोहन्ति, एकस्य यच्छरीरं तदेवानन्तानन्तानां साधारणाहारमाणत्वात् साधारणानां, एकमेकं प्रति प्रत्येकं पृथक्कायादयः शरीरं येषां ते प्रत्येककायाः । अनन्तः साधारणः कायो येषां तेऽनन्तकाया: । एते मूलादयः सम्मूर्च्छिमाश्च प्रत्येकानन्तकायाश्च भवन्ति ।। १६ ।।
श्रवयविरूपं व्याख्यायावयवभेदप्रतिपादनार्थमाह- श्रथवा वनस्पतिजातिर्द्विप्रकारा भवतीति वीजोद्भवा सम्मूच्छिमा च तत्र वीजोद्भवा मूलादिस्वरूपेण व्याख्याता । सम्मूच्छिमाया: स्वरूपप्रतिपादनार्थमाह
कंदा मूला छल्ली खंधं पत्तं पवाल पुप्फफलं । गुच्छा गुम्मा वल्ली तणाणि तह पव्व काया य कंदो मूलं त्वक् स्कंधः पत्र पल्लवं पुष्पफलं । गुच्छः गुल्मं वल्ली तृणानि तथा पर्व कायश्च ॥ १७॥
कन्दा - कन्दकः सूरणपद्म कन्दकादिः । मूला-मूलं पिण्डाधः प्ररोहकं हरिद्रकार्द्र कादिकं । छल्ली - स्वक वृक्षादिवहिर्वल्कलशैलयुतकादिकं च । खंधं-स्कन्धः पिंडशाखयोरन्त