SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ समाचोराधिकारः॥४॥ पक्षान्ते चतुर्दश्याममावास्यायां पौर्णमास्यां वा पक्षशब्दः प्रवर्तते तस्मिन् भवा पाक्षिकी । (चाउम्मासिय-) चतुर्यु मासेषु भवा चातुर्मासिकी । (वारिसिय)-वर्षेषु भवा वार्षिकी। एताश्च ता क्रियाश्च । दैवसिकीरात्रिकीपाक्षिकीचातु. मौसिकीवार्षिकी क्रियास्तासु । रिसिदेववंदणादिसु-ऋषयश्च ते देवाश्च ऋषिदेवास्तेषां वन्दनादिर्यासां ता ऋषिदेववन्दनादयस्तासु ऋषिदेववन्दनादिषु क्रियासु । सह-सार्धं एकत्र । जोगो-योग उपयुञ्जनं । अथवाऽखण्डोऽयं शब्दः सहयोगः । दैवसिकादिक्रियासहचरिता वेलाः परिगृह्यन्ते दैवमिकादिवेलासु सहयोगः। दैवसिकादिक्रियाः सर्वैरेकत्र कर्तव्या भवंति । दैवसिकादिषु ऋषिदेववन्दनादिषु च क्रियासु सहयोगो भवति कर्तव्य इति ॥ १७५ ॥ अथ यद्यपराधस्तत्रोत्पद्यते किं तत्रैव शोध्यते उतान्यत्र तत्रैवेत्याहमणवयणकायजोगणुप्पण्णवराध जस्स गच्छम्मिा मिच्छाकारं किच्चा णियत्तणं होदि कायव्वं॥१८६॥ मनोवचनकाययोगैःउत्पन्नापराधः यस्य गच्छे । मिथ्याकारं कृत्वा निवर्तनं भवति कर्तव्यम् ॥ १७६ ॥ मणवयणकायजोगेण-मनोवचनकाययोगैः। उप्पण्णउत्पन्नः संजातः । अवराध-अपराधो व्रतायतिचारः । अस्स
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy