SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १२६ मूलाचारे सुखिनो निर्वृत्तस्य शिष्यादिलाभे कुंडिकादिदानं, दुःखिनो व्याध्युपपीडितस्य सुखशय्यासनौषधान्नपानमर्दनादिभिरु पकार उपचार: । तुम्हं अहंति वयां - युष्माकमहमिति वचनं युष्माभिर्यदादिश्यते तस्य सर्वस्याहं कर्ता इति । अथवा युष्माकमेतत्सर्वं मदीयमिति वचनं । सुहदुवखुवसंपया - सुखदुःखोपसंपत् । णेया- ज्ञातव्या । सुखदुःखनिमित्तं पिछवसति कादिभिरुपचारो युष्माकमिति वचनं उपसम्पत् सुखदुःखविषयेति ॥ १४३ ॥ पंचम्या उपसम्पदः स्वरूपनिरूपणार्थमाहउवसंपया य सुत्ते तिविहा सुत्तत्थतदुभया चेव । एकेका विय तिविहा लोइय बेदे तहा समये ॥ उपसंपत् च सूत्रे त्रिविधा सूत्रार्थतदुभया चैव । एकैकापि च त्रिविधा लौकिके वेदे तथा समये ॥ सूत्रविषयोपसम्पच त्रिविधा त्रिप्रकारा । सुत्तत्थतदुभया चैव सूत्रार्थतदुभया चैव सूत्रार्थो यन्नः सूत्रोपसम्पत् अर्थनिमित्त यत्नो ऽर्थोपसम्पद, मूत्रार्थोभयहेतुर्यत्नः तदुभयोपसंपत् तादर्थ्यात्ताच्छन्द्यमिति । एकैकापि च सूत्रार्थीभयसम्पत् लौकिकवैदिकसामायिकशास्त्रभेद स्त्रिविधा । लौकिक सूत्रार्थतदुभयानामवगमः । तथा वैदिकानां सामायिकानां च। हुण्डावसर्पिण्यपेक्षया वैदिकशास्त्रस्य ग्रहणं । अथवा
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy