________________
समाचाराधिकारः ॥ ४॥ १२३ विनये क्षेत्रे मार्गे सुखदुःखे चैव सूत्रे च ॥ १३९ ॥
उपसंपयाय-उपसम्पच्चोपसेवात्मनो निवेदनमुपसम्पत् । णेया ज्ञेया ज्ञातव्या । पंचविहा-पंचविधा पंचप्रकारा। जिणवरेहि-जिनवरैः। णिहिट्ठा-निर्दिष्टा कथिता। केते पंच प्रकारा इत्याह-विणये-विनये । खेत्ते-क्षेत्रे । मग्गे-मागें । सुहदुक्खेसुखदुःखयोः । चशब्दः समुच्चये । एवकारोऽवधारणे । सुत्तेय-सूत्रे च । विषयनिदेशोऽयं विनयादिषु विषयेषूपसम्पत पंचप्रकारा भवति विनयादिभेदैर्वेति ॥ १३९ ॥
तत्र विनयोपसम्पत्प्रतिपादनार्थमाहपाहुणविणउवचारोतेसिं चावासभूमिसंपुच्छा। दाणाणुवत्तणादी विणये उवसंपया णेया॥ प्राणिकविनयोपचारौ तेषां चावासभूमिसंपृच्छा दानानुवर्तनादयःविनये उपसंपत् ज्ञेया ॥ १४० ॥
पाहुणविण उवचारो-विनयश्चोपचारश्च विनयोपचारौ प्राघूर्णिकानां पादोष्णानां बिनयोपचारौ, अंगमर्दनप्रियवचनादिको विनयः, आसनादिदानमुपचारः। श्रावासभूमिसंपुच्छा-आवासः स्थानं गुरुगृहं भूमिः मार्गोऽध्या तयोः संपृच्छा संप्रश्नः श्रावासभूमिसंप्रश्नः। दाणं-दानं संस्तरपुस्तकशास्त्रोपकरणादिनिवेदनं । अणुवचणादी-अनुवर्तनादयस्तदनुकूलाचरणादयः। विणये उवसंपया-विनयोपसम्पत्