________________
२८
ति एतत् 'वयं' ति व्रतं = ब्रह्मचर्यमिति श्लोकार्थः ॥ १२४॥
मूलशुद्धिप्रकरणम्-द्वितीयो भागः
किमेतदेव ब्रह्मचर्यं दुर्धरत्वाद्गुणकारणमुताऽन्यदपि ? अत आहमोक्खावहं अणुट्ठाणं सव्वं सव्वण्णुदंसियं ।
भिक्खुणीणं कुणंतीणं संभवंति धुवं गुणा ॥ १२५ ॥
मोक्षावहं= शिवकारि, अनुष्ठानं = क्रियाकलापरूपम्, सर्वं = समस्तम्, सर्वज्ञदर्शितं = तीर्थकरप्रतिपादितम्, भिक्षुणीनां = संयतीनाम्, 'कुणंतीणं' कुर्वतीनाम्, सम्भवन्ति = सम्भाव्यन्ते, ध्रुवं = निश्चितम् गुणाः = ज्ञानादय इति श्लोकार्थः ॥१२५॥
यदि गुणाः सम्भवन्ति ततः किम्
गुणा लिहीलाए एगाहारगयाण वि ।
सन्नाण - चरणाईणं सव्वे सव्वत्थ हीलिया ॥ १२६ ॥
गुणानां = ज्ञानादीनाम्, 'कील' इत्याप्तवादसंसूचकः हीलया = निन्दया, एकाधारगतानामपि आस्तां प्रभूताधारगतानाम्, सज्झान - चरणादीनां = मतिज्ञानादि - चारित्रप्रभृतीनाम्; आदिशब्दाद् दर्शन- तपः - संयमप्रभृतयो गृह्यन्ते, सर्वे = समस्ताः, सर्वत्र= मर्त्यलोके, हीलिताः =अपमानिताः, भवन्तीत्यध्याहार इति श्लोकार्थः ॥ १२६ ॥
तद्हीलनादौ च को दोषः ? इत्याशङ्कायामाह
इहेव हीलिया हाणि हसिया रोवियव्वए ।
अक्कोसिया वहं बंधं, मरणं दिति ताडिया ॥१२७॥
इहैव = अत्रैव जन्मनि, हीलिताः = अगौरव्यताविषयीकृताः, हानीम् = अर्थनाशादिकाम्, ददतीति श्लोकान्ते क्रिया । हसिताः = हास्यविषयं प्रापिताः, रोदनाय = आक्रन्दनाय, जायन्त इत्यध्याहारः । आक्रोशिताः = आक्रुष्टा; वधं = लकुयदिघातम्; बन्धं = रज्ज्वादिसंयमनं ददति । मरणं = प्राणत्यागलक्षणम् ददति = प्रयच्छन्ति; ताडिताः = लताघातादिभिरिति श्लोकार्थः ॥१२७॥
हीलनादिभिश्च तेषामाशातना कृता भवति, तस्याश्चाऽनन्तसंसारकारणत्वादित्यत आह
तत्तो आसायणाए उ, दीहो बहुदुहावहो ।
गोसाल - संगमाणं व, दुरंतो भवसाय ॥१२८॥
ततः=तस्मात्, आशातनया = आय: = लाभस्तस्य शातना आशातना तया, दीर्घः =
१. ता. 'ण्णुदेसियं ॥ २. ता. धुयं ॥