________________
मुका].
आचारलक्षणां ।। हि सांयात्रिका उदधेरुत्तितीर्षव आसन्दीनं सिंहलादिरूपमवाप्याश्वसन्ति, तथा भावसन्धानायोत्थितं साधुमवाप्यापरे प्राणिनः समाश्वसन्ति, यथा वा आदित्यादयः स्थपुटाद्यावेदनतो हेयोपादेयहानोपादानवतां सहकारिणो भवन्ति तथा ज्ञानसन्धानायोत्थितः परीषहोपसर्गाक्षोभ्यतयाऽऽसन्दीनः साधुविशिष्टोपदेशदानतोऽपरेषामुपकरोति । तथा च भगवदुपदिष्टं धर्म कुतर्काद्यप्रधृष्यं प्रति भावसन्धानो. घताः संयमारतेः प्रणोदका मोक्षनेदिष्ठा भोगाननवकांक्षन्तः सम्यगुत्थिता भवन्ति । ये च तथा । विज्ञानाभावान्नाद्यापि सम्यगुत्थितास्ते यावद्विवेकिनो भवन्ति तावदाचार्यादिभिस्तत्परिपालनया सदुप देशदानेन परिकर्मितमतयो विधेयाः, यथाविध्याचारादिकं तानध्यापयेच्चारित्रश्च ग्राहयेत् , तत्र केचित् क्षुद्रकाः शिष्या आचार्यादिभिः श्रुतज्ञानं लब्ध्वा बहुश्रुतीभूताः प्रबलमोहोदयादपनीतसदुपदेशा उत्कटमदत्वाज्ज्ञानादित्रयोपशमं त्यक्त्वा ज्ञानलवगर्विताः प्रसङ्गे मादृश एव कश्चिच्छब्दार्थनिर्णयाय समर्थो न सर्व इति, आचार्योऽपि बुद्धिविकलः किञ्जानातीति च स्वौद्धत्यमाविष्कुर्वति, अपरे तु 16 ब्रह्मचर्य उषित्वा आचारार्थानुष्ठायिनोऽपि तामेव भगवदाज्ञां न बहुमन्यमानाः सातगौरवबाहुल्या च्छरीरबाकुशिकतामालम्बन्ते ते गौरवत्रिकान्यतमदोषाज्ज्ञानादिके मोक्षमार्गे सम्यगवर्तमानाः कामै दग्धाः सदसद्विवेकभ्रष्टाः सम्यग्दर्शनविध्वंसिनः स्वतो विनष्टा अपरानपि शङ्काद्युत्पादनेन सन्मार्गाबंशयन्ति, एते च प्राकृतपुरुषाणामपि गा भवन्ति, तस्मादेतान् विज्ञाय मर्यादावस्थितो विषयसुखनिष्पिपासः कर्मविदारणसहिष्णुर्भूत्वा सर्वज्ञप्रणीतोपदेशानुसारेण सर्वकालं परिकामयेत् , स पण्डितो is गौरवत्रिकाप्रतिबद्धो निर्ममो निष्किञ्चनो निराश एकाकिविहारितया साधुविहरणयोग्येष्वर्धषड्विंशतिदेशेषु विहरन् तिर्यनरामरविहितभयादिहास्यादिचतुष्टयप्रयुक्तानुकूलप्रतिकूलान्यतरोभयोपसर्गानक्षोभ्यो नरकादिदुःखभावनयाऽवन्ध्यकर्मोदयापादितं पुनरपि मयैव सोढव्यमित्याकलय्य सम्यक् तितिक्षेत । प्राणिगणेषु दयां कुर्वन्नरक्तद्विष्टो यावज्जीवं द्रव्यादिभेदैराक्षेपण्यादिकथाविशेषैः प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहरात्रिभोजनविरतिविशेषैर्वा यथायोग्यं विभज्य धर्ममुत्थितेषु-चतुर्या- 20 मोत्थितेषु-पार्श्वनाथशिष्येषु वशिष्येषु सदोस्थितेषु वाऽनुत्थितेषु श्रावकादिषु धर्म श्रोतुमिच्छत्सु पर्युपास्तिं कुर्वत्सु वा यथाऽऽत्मनो बाधा न भवेत्तथा प्रवदेत् । एवं मरणकाले समुपस्थिते संसारस्य कर्मण उस्थितभारस्य वा पर्यन्तगामी मुनिरनुद्विमो द्वादशवर्षसंलेखनयाऽऽत्मानं संलिख्य गिरिगह्वरादिस्थण्डिलपादपोपगमनेङ्गितमरणभक्तपरिज्ञान्यतरावस्थोपगतशरीरस्य जीवेन साधं यावद्भेदो भवति तावदाकांक्षेत् समताम् । इत्थमेव कर्मधूननं भगवानुपदिदेशेति ॥ ४३ ॥
28 तदेवं कर्मधूननमभिधाय तत्सफलतासम्पादकमन्तकालेऽपि सम्यनिर्याणममिधातुकामः कुशीलानां प्रावादुकशतानां सङ्गं दर्शनविशुद्धयै विहायाधाकर्मादेश्च परित्यागं कुर्यादित्याह
प्रावादुकयोगमुज्झित्वा सदोषमाहारादि नादद्यात् ॥ ४४ ॥
प्रावादुकेति, प्रकृष्टो वादो येषान्ते प्रावादुकाः शाक्यादयः, तेषां योगः सम्बन्धस्तम् , अशनपानखादिमखादिमवस्त्रपात्रादिप्रदानादानादिभिस्तेषां योगं सम्यग्विजह्यात्, ते हि सावद्यारम्भार्थिनो 30 विहारारामतडागकूपकरणौदेशिकभोजनादिभिर्धर्म वदन्तः करणैः प्राणिसमारम्भिणोऽन्यदीयमदत्तं द्रव्यं तद्विपाकमविगणय्याददानाः केचित्परलोकमपवदन्तः, केचिल्लोकं नवखण्डपृथिवीलक्षणं सप्तद्वीपा