________________
सूत्रार्थमुक्तावल्याम्
[द्वितीया निकेतनमगारवासं शारीरमानसदुःखसन्तप्ता अपि राजकृतोपद्रवसहा अपि हुताशनदग्धसर्वस्वा अपि न परित्यजन्ति तत्रैवावस्थिताः प्राप्ते दुःखे हा तात, हा मातः हा दैव इत्येवं करुणं रुदन्तोऽपि दुःखविधूननदक्षं मोक्षसाधनं वा संयमानुष्ठानं न गृहन्ति, तथा नानाव्याध्याद्युपसृष्टाः परत्रापि नरकादिषु महतीवेदना अनुभवन्ति, गतयो हि नारकतिर्यङ्नरामरलक्षणाश्चतस्रः, तत्र नरकगतौ चतस्रो योनि5 लक्षाः पञ्चविंशतिकुलकोटिलक्षाः त्रयस्त्रिंशत्सागरोपमाण्युत्कृष्टा स्थितिः, वेदनाः परमाधार्मिकपरस्परोदीरितश्रोत्रच्छेदननेत्रनिष्कासनहस्तपादोत्पाटनहृदयदहनाद्यनुक्षणदारुणदुःखानां वाचामगोचरा नारकाणां भवन्ति, तिर्यग्गतौ पृथिवीकायादिजन्तूनां स्वपरशस्त्रप्रयुक्ता महत्यः शीतोष्णादिका वेदना भवन्ति । मनुष्यगतौ वेदना ईदृशा यथा 'दुःखं स्त्रीकुक्षिमध्ये प्रथममिहभवे गर्भपासे नराणां बालत्वे चापि
दुःखं मललुलिततनुस्त्रीपयःपानमिश्रम् । तारुण्ये चापि दुःखं भवति विरहजं वृद्धभावोऽप्यसारः संसारे 10 रे मनुष्या वदत यदि सुखं स्वल्पमप्यस्ति किञ्चित् ॥ बाल्यात्प्रभृति च रोगैर्दष्टोऽभिभवश्च यावदिह
मृत्युः । शोकवियोगायोगैर्दुर्गतदोषैश्च नैकविधैः ॥ क्षुत्तृड्डिमोष्णानिलशीतदाहदारिद्रयशोकप्रियविप्रयोगैः। दौर्भाग्यमौानभिजात्यदास्यवैरूप्यरोगादिभिरस्वतंत्रः॥' इत्यादि । देवगतावपि च्यवनवियोगक्रोधेादिप्रयुक्ता नानाविधा वेदना भवन्ति । तदेवं चतुर्गतिपतिताः संसारिणः कर्मविपाकमनेकविध
मनुभवन्ति तत्सावद्यानुष्ठानानां महाभयं विज्ञाय तदुन्मूलनाय यत्नो विधेयः । ये तु धर्मश्रवणयोग्या16 वस्था धर्मकथादिकमासाद्य सदसद्विवेकं जानाना अधीताचारादिशास्त्रास्तदर्थभावनया परिवृद्धचरणपरिणामास्ते मुनयो यथाक्रमं शैक्षकगीतार्थक्षपकपरिहारविशुद्धिकैकाकिविहारिजिनकल्पिका भवन्ति । तस्माद्विदितवेद्यः संसारपराङ्मुखो महापुरुषमार्गानुयायी नानाविधं करुणाजनकं मातापित्रादिस्वजनविहितमाक्रन्दनं निशम्यापि महादुःखागारे गृहावासे रतिं नैव विदध्यात् । न वा दुर्लभं चरणश्चावाप्य यौगपद्येन क्रमेण वोदीर्णान् दुःसोढान् परीषहाननधिसहमानो भोगार्थ वा धर्मोपकरणपरित्यागेन देश20 विरत्यादिभावावलम्बनं कुर्यात् , भोगार्थ त्यागेऽप्यन्तरायोदयात्तत्क्षणमेवान्तर्मुहूर्त्तादिना कालेन वा
शरीरवियोगसम्भवात् , ततश्च पुनरनन्तेनापि कालेन पश्चेन्द्रियत्वप्राप्तिर्दुर्लभा भवति, अतोऽशुद्धपरिणामो भूत्वा धर्मोपकरणसमन्वितोऽनुकूलप्रतिकूलपरीषहानुदीर्णान् विज्ञाय भावनाभावितस्सम्यक्तितिक्षमाणः परिव्रजेत् , कर्म च मूलोत्तरप्रकृतिभेदेन विज्ञाय तननसमर्थतपोविशेषेण क्षपयेत्, तदपि कर्मधूननं नोपकरणशरीरधूननमन्तरेण भवति, उपकरणञ्च धर्मोपकरणातिरिक्तं प्रायम् , धर्मोप25 करणभूतवस्रादेर्जीर्णतादिसम्भवे तत्सन्धानादावार्तध्यानरहितो भविष्यत्ताध्यवसायी कदाचित्परुषतृण
शीतोष्णादिस्पर्शप्राप्तावपि द्रव्यत उपकरणलाघवं भावतः कर्मलाघवं बुध्यमानः सम्यगधिसहेत, तदेवमधिसहमानः कर्मक्षपणायोत्थितः संसारकारणरागद्वेषकषायसन्ततेः क्षान्त्यादिना क्षयं कृत्वा समतां भावयेत् , यथा जिनकल्पिकः कश्चिदेकं कल्पं द्वौ वा त्रीन् विभर्ति, स्थविरकल्पिको वा मासार्धमासक्षपकस्तथा विकृष्टाविकृष्टतपश्चारी प्रत्यहं भोजी कूरगडुको वा, एते सर्वेऽपि तीर्थद्वचनानुसारतः 80 परस्परानिन्दया समत्वदर्शिन इति, तदेवंविधो मुनिः सर्वसङ्गेभ्यो मुक्तः सर्वसावद्यानुष्ठानेभ्यो विरतोऽ
नुक्षणं विशुद्धचरणपरिणामितया विष्कंभितमोहनीयोदयत्वाल्लघुकर्मा प्रतिक्षणमुत्तरोत्तरं संयमस्थानकण्डक्कं सन्दधानो यथाख्यात चारित्राभिमुखोऽरत्यभिभवानास्पदः स्वस्य परस्य च त्राता भवति, यथा