________________
मुका]
आचारलक्षणा। अथ तथाविधाऽऽचार्यसंसेवनात् कुमार्गपरित्यागो रागद्वेषाभावश्वावश्यम्भावीत्याह
तयुक्तोऽनभिभूतो विवेकी निरास्रवोऽकर्मा भवति ॥ ४२ ॥
तद्युक्त इति, दुर्गतिप्राप्तिहेतुसावद्यस्वमनीषिकापरिकल्पितानुष्टानविकलः सर्वकार्येषु तद्युक्तःआचार्यानुमत्यनुवर्त्तनशीलोऽनुकूलप्रतिकूलोपसर्गः परतीर्थिकैर्वाऽनभिभूतोऽत एव विवेकी सर्वज्ञोपदेश एव प्राणिभृतामिह लोके परमसुखसाधनसमर्थत्वात्सारभूतो नान्यः कश्चिन्मातापितृकलत्रमित्रपुत्रादिः, तस्य दुर्गतिसाधनत्वेनासारत्वात् , न वा परतीर्थिकोपदेशाः सारभूताः, परस्परविरुद्धप्रवादत्वेन मिथ्यात्वमूलत्वात् , न हि तनुभुवनादिकमीश्वरकृतमिति वैशेषिकप्रवादो युक्तियुक्तः, अभ्रेन्द्रधनुरादीनां विस्रसापरिणामजनितानां तद्व्यतिरेकीश्वरकारणकल्पनायामतिप्रसङ्गात् , घटादीनां दृष्टकारणव्यापारापादितजन्मनामदृष्टव्यापारेश्वरकल्पने रासभादेरपि कारणत्वं स्यादिति, तथा प्रकृतिः करोति पुरुषोऽकर्लोपभुत इति सांख्यप्रवादोऽपि युक्तिशून्यः, अचेतनायाः प्रकृतेरात्मोपकाराय क्रियाप्रवृत्त्यसम्भवात् , 10 नित्यायाः प्रवृत्त्यसम्भवाच्च, पुरुषस्याप्यकर्तृत्वे संसार उद्वेगो मोक्ष उत्साहो भोक्तृता च न स्यादिति, सर्वं क्षणिकं सत्त्वादिति बौद्धवादोऽपि न युक्तः, निरन्वयविनाशितायां हेतुफलभावानुपपत्तेः, सन्तानिव्यतिरेकेण सन्तानस्याभावादेकसन्तानान्तर्भावेण तदुपपत्तिरिति कल्पनाया अप्यसम्भवादिति । बार्हस्पत्यवादस्तु भूतमात्राभ्युपगमेनात्मपुण्यपापपरलोकादीनामभावादत्यन्तगी एवेत्येवं सारासारविवेकी स्वस्य वा तथाविधविवेचनाशक्त्यभाव आचार्याधुपदेशाद्यथावस्थितवस्तुविवेक्यणिमाद्यष्टविधै-15 श्वर्यदर्शनादपि परतीर्थिकानिन्द्रजालकल्पानवधारयन् लघुकर्माऽणुमात्रमप्यनुलंधिततीर्थकरायुपदेशो निरास्रवः-आस्रवद्वारनिरोधं विदधानः सदा कर्मरिपून्मूलने पराक्रमेत, येनाकर्मा भवति, घातिकर्मरहितो भवति, तदभावाच्च केवलज्ञानी केवलदर्शनी च भवति, स एव संसारार्णवपारवर्ती विदितवेद्यश्चेति ॥ ४२ ॥
तदेवं लोके सारभूतौ संयममोक्षावभिधाय कर्मधूननोपायं सर्वज्ञप्रतिपादितमाहस कर्मगुरूणां वेदनाः प्रोच्योत्थितानां कर्मधूननमाचष्टे ॥ ४३॥
स इति, यो ह्यकर्मा विदितनिखिलवेद्यो भवोपग्राहिकर्मसद्भावेन मनुष्यभावव्यवस्थितोऽष्टविधकर्मधूननमावेदयति, न तु तथा यथा शाक्यानां कुड्यादिभ्यो वैशेषिकाणाञ्चोलूकभावेनोपदेशः । स एवेत्यनुक्तत्वादतीन्द्रियज्ञानिनो निखिलप्रकारैर्विज्ञातजीवादिपदार्थाः श्रुतकेवलिनो वा धर्ममाचक्षत इत्यपि सूचितम् । कानुद्दिश्येत्यत्रोक्तमुत्थितानामिति, धर्माचरणार्थ समुत्थितानामित्यर्थः, यद्वा द्रव्यतो भावत-25 श्वोत्थिता भवन्ति, द्रव्यतइशरीरेण भावतो ज्ञानादिभिः, तत्र समवसरणस्थाः त्रिय उभयथा उत्थिताः शृण्वन्ति, पुरुषास्तु द्रव्यतो भाज्याः, भावोत्थितानान्तु धर्ममावेदयति, उत्तिष्ठासूनाञ्च देवानां तिरश्वाञ्च, येऽपि कौतुकादिना शृण्वन्ति तेभ्योऽप्याचष्टे । किं कृत्वा, कर्मगुरूणां वेदनाः प्रोच्य, साक्षाद्भगवति सकलसंशयापहर्तरि धर्ममावेदयति सति ये प्रबलमोहनीयोदयात् संयमादवसीदन्ति ते कर्मगुरवः, लघुकर्माणस्तु तीर्थकृदुक्तं धर्म प्रतिपद्य तदनुष्ठानायोद्यन्ते नापरे, कर्मगुरवो हि धर्मानुष्ठान-30 समर्थमनुष्यायेक्षेत्रसुकुलोसत्तिसम्यक्त्वायुपलभ्यामि मोहोदयाच्छन्दादिविषमेम्बासक्ता निखिलदुःख