SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ६८ सूत्रार्थमुक्ताबल्याम् [द्वितीया निर्विचिकित्स इति, ह्रदकल्पमिति, ह्रदो हि चतुर्विधः, तत्र प्रथमः परिगलत्पर्यागलस्रोताः, यथा सीतासीतोदाप्रवाहह्रदः, अपरः परिगलदपर्यागलस्रोता यथा पद्मह्रदः, इतरश्च न परिगलत्स्रोताः पर्यागलस्रोताश्च, यथा लवणोदधिः, अन्यस्तु न परिगलस्रोता न वा पर्यागलस्रोताः, यथा मनुष्यलोकादहिस्समुद्रः, एवमाचार्योऽपि श्रुतमधिकृत्य प्रथमभङ्गपतितः श्रुतस्य दानाद्रहणाच्च, साम्परायिककर्मापेक्षया द्वितीयभङ्गपतितः, कषायोदयाभावेन ग्रहणाभावात् , कायोत्सर्गादिना क्षपणोपपत्तेश्च । आलोचनामङ्गीकृत्य तृतीयभङ्गपतितः, आलोचनाया अप्रतिश्रावितत्वात् । कुमार्ग प्रति चतुर्थभङ्ग पतितः, कुमार्गस्त्य प्रवेशनिर्गमाभावात् । एकाचार्यमङ्गीकृत्यैतद्भङ्ग-योजना बोध्या । धर्मिभेदाङ्गीकारेण तु स्थविरकल्पिकाचार्याः प्रथमभङ्गपतिताः, द्वितीयभङ्गपतितस्तीर्थकृत् , तृतीयभङ्गस्थस्तु यथासन्दिकः, तस्य च क्वचिदर्थापरिसमाप्तावाचार्यादेनिर्णयार्थ गमनात् , प्रत्येकबुद्धास्तूभयाभावाञ्चतु10 र्थभङ्गस्थाः, अत्र प्रथमभङ्गपतितो ग्राह्यः, एवंविधं पञ्चविधाचारसमन्वितमष्टविधाचार्यसम्पदुपेतं ह्रदकल्पं निर्मलज्ञानपरिपूर्ण प्राणिगणानां स्वतः परतश्च रक्षकमाचार्यमनुसरेत्, कथम्भूतो विनेय इत्यत्राह निर्विचिकित्स इति, युक्त्युपपन्नेऽप्यर्थे मोहोदयान्मतिविभ्रमो विचिकित्सा, यथा कृषीवलक्रिया सफला निष्फला च दृष्टा तथैव महानयं तपःक्लेशः सफलो निष्फलो वेति संशयो मिथ्यात्वां शानुवेधाज्ञयगहनत्वाच्च भवति, विदितसंसारस्वभावानां परित्यक्तसमस्तसङ्गानां साधूनां विषयेऽ15 स्नानादिप्रयुक्ता निन्दाऽपि विचिकित्सा, चित्तविक्षेपहेतुत्वात् , एवमादिविचिकित्सा यस्य भवेन्नासावाचार्यैरुच्यमानां बोधिं सम्यक्त्वाख्यां लभते, तस्माद्विचिकित्सारहितः स्यात् , तद्रहितो गृहस्थो यतिर्वाऽऽचार्योक्तं सम्यक्त्वमवधारयति, अज्ञानोदयादप्रतिपद्यमानोऽपि निर्विण्ण एवं भावयति, नाहं भव्यो न मे संयतभावोऽस्ति, व्यक्तार्थस्याप्याचार्योक्तेरनवगमादिति, तच्चाचार्यसमाधने अयि साधो मा विषादं कार्षीः, भव्य एव भवान् , भव्यत्वाविनाभाविग्रन्थिभेदप्रयुक्तसम्यक्त्वस्य त्वयाऽभ्यु20 पगमात् , अभव्यस्य भव्यत्वाभव्यत्वशङ्काया असम्भवात्, द्वादशकषायक्षयोपशमाद्यन्यतमसात्तप्रयुक्तविरतिपरिणतेः प्राप्तत्वाञ्च, कथ्यमानपदार्थानवगतिस्तु तज्ज्ञानावरणीयकर्मप्रयुक्ता, तस्मात्तत्र श्रद्धानलक्षणसम्यक्त्वमवलम्बखेति । स्वपरसमयवेद्याचा भावे सूक्ष्मव्यवहितातीन्द्रियपदार्थेषुभयसिद्धदृष्टान्तसम्यग्घेत्वभावे ज्ञानावरणीयसद्भावेन सम्यग्ज्ञानाभावेऽपि 'तदेव सत्यं निःशकं यजिनैः प्रवेदित'मिति विचिकित्साविरहितः श्रद्धानं विदध्यादत उक्तं निर्विचिकित्सः श्रद्धालुरिति, तत्र कस्य25 चित्प्रव्रज्यावसरे तदेव सत्यमिति यथोपदेशं प्रवर्त्तमानस्यानन्तरमपि प्रवर्धमानकण्डकस्य शङ्कादिराहित्य भवति, कस्यचित्तु पूर्वं श्रद्धानुसारित्वेऽपि प्रव्रज्याप्रतिपत्त्यनन्तरमान्वीक्षिक्याद्यध्ययनत एकनयावलम्बनतोऽनन्तधर्मात्मके भगवदुक्ते पदार्थजाते यद्ययं नित्यः कथमसावनित्योऽनित्यश्चेत्कथं नित्यः, अप्रच्युतानुत्पन्नस्थिरैकस्वभावनित्यत्वस्य प्रतिक्षणविशरारुतालक्षणानित्यत्वेन परस्परपरिहारस्थितिलक्षणविरोधादित्यादिरूपोऽसम्यग्भावो मिथ्यात्वांशोदयात्समुन्मिषति, स च नैवं विचिन्तयति सर्व वस्त्वनन्तधर्मा30 त्मकम् , सर्वनयसमूहात्मकञ्च भगवदर्शनमतिगहनमल्पधियां श्रद्धागम्यमेव, न तु हेतुगम्यम् , एकनयाभिप्रायेणैव हेतोः प्रवृत्तेस्तस्यैकधर्मसाधकत्वात् , सर्वधर्मप्रसाधकस्य च हेतोरसम्भवादिति । तस्मादेवंविधां शङ्कां विधूय जिनोपदेशं श्रद्दधानः सदाऽऽचार्यमार्गमनुगच्छेदिति ।। ४१ ॥
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy