SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ मुक्ता ] आधारलक्षणा । :: व्यक्तस्तस्याप्येकचर्या न कल्पते, अगीतार्थत्वेनोभयविराधना सद्भावात् श्रुतेन व्यक्तस्य वयसा चाव्यक्तस्यापि नैकचर्या, बालतया सर्वपरिभवास्पदत्वात् । यस्तूभयव्यक्तः स सति कारणे प्रतिमामेका किविहारित्वमभ्युद्यतविहारं वा प्रतिपद्यते, कारणाभावेऽस्याप्येकचर्या नानुमता, तस्यां गुप्तीर्यादिविषयानेकदोषसम्भवात्, एकाकिन ईर्यापथशोधनप्रवृत्तस्य वाद्युपयोगाभावात्तत्र चोपयुक्तस्येर्यापथशोधनप्रवृत्त्यनुपपत्तेः, एवं समित्यादावपि भाव्यम्, तथाऽजीर्णवाता दिव्याभ्युत्पत्तौ संयमात्मविराधनायाः प्रवचन- 5 हीलनायाश्च प्रसङ्गः, तदा गृहस्थैः प्रतिजागरणे क्रियमाणेऽज्ञानतया षङ्कायोपमद्देनसम्भवेन संयमबाधा, अन्यथाऽऽत्मविराधना, अतिसारादौ मूत्रपुरीषजम्बालान्तर्वर्त्तित्वात् प्रवचनहीलना स्यात्, गच्छान्तवर्त्तने चोद्यतविहारी सीदन्तमपरं बालवृद्धादिकमप्युद्यमयति, यथोदके तरन् समर्थो विलग्नं काष्ठादिकमपि तारयति । तदेवं गच्छान्तर्वर्त्तिनोऽव्यक्तस्य बहवो गुणाः, अव्यक्तस्यैकचरस्य तु बहवो दोषा इति विभाव्याऽऽगमानुसारितया सदा गच्छान्तर्वर्त्ती भवेत्, न तु गच्छान्तर्वर्त्ती क्वचित्प्रमादस्खलिते 10 चोदितः सदुपदेशमवगणय्य सद्धर्ममपर्यालोच्य कषायविपाककटुकतामविचार्य परमार्थमनवधार्य कुलपुत्रतां पृष्ठतः कृत्वा वाङ्मात्रादपि कोपनिघ्नः सुखैष्यगणितापत्तिर्गच्छान्निर्गच्छेदिति ॥ ३९ ॥ गुर्वादिना कार्यार्थं कचित्प्रेषितोऽपि सद्वर्त्तनः स्यादित्याह — गुरुप्रेषितोऽपि क्रियासुपयुक्तोऽप्रमादी स्यात् ॥ ४० ॥ गुरुप्रेषित इति, सदा गुरुकुलवासी गुर्वभिप्रायानुवर्त्तनशीलः कचित्कार्यादौ गुरुभि: 15 प्रेषितो गच्छन् हस्तपादादिसङ्कोचनतो निखिला शुभव्यापाराद्विनिवर्त्तमानोऽवयवांस्तन्निक्षेपस्थानानि च रजोहरणादिना परिमृजेत्, उपविशन्नपि भूम्यामेकमूरुं व्यवस्थाप्य द्वितीयमुत्क्षिप्य तिष्ठेत्, निश्चलस्थानासहिष्णुत्वे च भूमिं प्रत्युपेक्ष्य प्रमार्ण्य च सङ्कोचनप्रसारणे विदध्यात्, स्वपन्नपि मयूरवच्छयीत, अपरप्राणिभयात् सचेतन एकपार्श्वशायी भवेत्, एवं सर्वाः क्रियाः परिवर्त्तनादिकाः सम्प्रेक्षणपरिमार्जनपुरस्सराः कुर्यात्तदेवं स्रोपयोगं क्रियामाचरतः कदाचित् सम्पातिमादयः प्राणिनः कायसंस्पर्शमुप- 20 गता विमुक्तप्राणा यदि भवेयुस्तदाऽनाकुट्टिकया कृतत्वादैहिकभवक्षपणार्ह कर्म बध्नाति, कर्मबन्धं प्रति वैचित्र्यात्, शैलेश्यवस्थायां हि मशकादीनां कायसंस्पर्शेन प्राणत्यागेऽपि बन्धोपादानकारणयोगाभावानास्ति बन्धः, उपशान्तक्षीणमोहसयोगिकेवलिनां स्थितिनिमित्तकषायाभावात्सामयिकः, अप्रमत्तयतेर्जघन्यतोऽन्तर्मुहूर्त्तमुत्कृष्टतश्चान्तः कोटीकोटिस्थितिरिति, प्रमत्तस्य त्वनाकुट्टिकयाऽनुपेत्य प्रवृत्तस्य क्वचित्पाण्याद्यवयवसंस्पर्शात् प्राण्युपतापनादौ जघन्यतः कर्मबन्धः स च तेनैव भवेन क्षिप्यते, उत्कृष्टतश्च 25 प्राक्तन एव विशेषिततरः, आगमोक्तकारणमन्तरेणोपेत्य प्राण्युपमर्देन विहितं परिज्ञया परिज्ञाय दशविधप्रायश्चित्तान्यतरेण तत्कर्म परिहरेन्न तु प्रमाद्येत, स एव चाप्रमत्तः प्रमादविपाकस्यातीतानागतव - र्त्तमानकर्मविपाकस्य वा द्रष्टृत्वात्, उपशान्तकषायत्वात् समितत्वाच्च, अयमेवम्भूतोऽप्रमत्तो गुरुसमीपवासी प्रमादजकर्मणोऽन्तं विधत्ते ख्यादिपरीषहप्रसङ्गेऽपि सम्यग्दृष्टित्वाकार्याकरणप्रवृत्तत्वादिपर्यालोचनया निष्प्रकम्पो भवति, आहारहान्या कायोत्सर्गादिना विषयेच्छानिवृत्तिं करोतीति ॥ ४० ॥ अथाव्यक्तस्यैकचर्यायामपायादाचार्य से वित्वस्यावश्यकतयाऽऽचार्यान्तेवासिनोः स्वरूपमाह - निर्विचिकित्सः श्रद्धालुई दकल्पमाचार्यमनुगच्छेत् ॥ ४१ ॥ 30
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy