________________
सूत्रार्थमुक्तावल्याम्
[ द्वितीया
विपाकजं दुःखं मयैव सोढव्यं पश्चादप्येतन्मयैव सहनीयं न हि संसारोदरे तादृशः कोऽपि विद्यते यस्यासात वेदनीयविपाकापादितरोगातङ्कादयो न भवेयुः, केवलिनोऽपि मोहनीयादिघातिचतुष्टयक्षयादुत्पन्नज्ञानस्य वेदनीयसद्भावेन तदुदयाद्रोगादिसम्भवात्, यतश्च तीर्थकरैरप्येतद्वद्धस्पृष्टनिधत्तनिकाचनावस्थायातं कर्मावश्यं वेद्यम्, अन्यथा तन्मोक्षासम्भवादित्यादिविचारणया तथा शरीरमिदमौदारिकं 5 सुचिरमप्यौषधाद्युपबृंहितं निःसारतरं सर्वथा सदा विशरारु मृन्मयघटादपि, सुपोषितमपि च वेदनोदये शिरउदरचक्षुःप्रभृत्यवयवाः स्वत एव विनश्यन्ति, अतोऽस्योपरि कोऽनुबन्धः का वा मूर्च्छा, नास्य कुशलानुष्ठानव्यतिरेकेण सार्थक्यमिति भावयन्नना कुल मतिरसंयत लोकवित्तादिकं धनधान्यादिरूपं मूल्यत: प्रमाणतोऽणु वा महद्वा परिग्रहो महते भयायेति परिज्ञया विज्ञाय परिहर्त्ता यः स एव मुनिः; तस्मिन्नेव परमार्थतो ब्रह्मचर्यं नवविधब्रह्मचर्यगुप्तिसद्भावात् तस्माद्यावज्जीवं परिग्रहाभावाद्यत् क्षुत्पि10 पासादिकमागच्छति तन्मोक्षैकदृष्टिरुपेक्ष्य विविधतपोऽनुष्ठान विधिना संयमं परिपालयेदिति ॥ ३७ ॥ अथाष्टविधकर्मक्षपतिरमाह -
६६
उत्थितानिपाती सुशीलो दुर्लभं शरीरादिमाप्य कर्म परिहरेत् ॥ ३८ ॥
उत्थितानिपातीति, पूर्वं संयमानुष्ठानेनोत्थितः पञ्चात् कर्मपरिणतिवैचित्र्येण निपाती निपतनशीलो नन्दिषेणवत्, गोष्ठामहिलवदिति उत्थितनिपाती, यश्च नैवं - उत्थितः सन् प्रवर्धमानपरिणामो 15 न निपाती सिंहतया निष्क्रान्तः सिंहतया विहारी च गणधरादिवत्स उत्थितानिपाती, अनुत्थितः सन् निपतनशीलश्च न सम्भवति, निपतनस्योत्थानाभावेऽसम्भवात्, ये तु सम्यग्विरतिविरहिणो गृहस्थाश्शाक्यायो वा तेन पूर्वोत्थायिनो न वा पश्चान्निपातिनः, उत्थानस्यैवाभावादिति चतुर्विधं भङ्गं भगवदुक्तं विदित्वा तदाज्ञानुसरणशीलः सदसद्विवेकी सदा गुर्वाज्ञापरिपालकः सदाचारानुष्ठाय्यष्टादशसहस्रसंख्यं शीलं संयमं वा विज्ञाय तदनुवर्त्यक्षिनिमेषकालमात्रमपि प्रमादेन विरहितो गम्भीरसंसारार्णव20 पतितस्य भवकोटिसहस्रेष्वपि दुष्प्रापं भावयुद्धार्ह मौदारिकशरीरं तत्रापि मनुजत्वादिकं लब्ध्वा प्राप्य च मोक्षैकगमनहेतुं भगवदुक्तं धर्मं पूर्वोदित हेतुभिर्बद्धं कर्म तदुपादानं च सर्वतः परिज्ञाय प्रत्याख्यानपरिज्ञया सर्वतः परिहरेत्, भावयुद्धार्हं हि शरीरं लब्ध्वा कश्चित्तेनैव भवेनाशेषकर्मक्षयं विधत्ते मरुदेवीस्वामिनीव, कश्चित्सप्तभिरष्टाभिर्वा भवैर्भरतवत् कश्चिदपार्धपुद्गलपरावर्त्तेन घोरार्हत्तच्छासना शातनकृन्नरवत् । यस्तु कर्मोदयवशात् तथाविधं शरीरं धर्म प्राप्यापि च्युतो हिंसानृतस्तेयादौ प्रवृत्तो गर्भादियातनास्थानेषु 25 पुनः पुनर्गच्छति, तस्मात्पापोपादानप्रवृत्तमात्मानं संयम्य निर्ममत्वो निर्विण्णो भवेदिति ॥ ३८ ॥ अथैकरस्य मुनित्वाभावे कारणमाह
अव्यक्तस्य नैकचर्या संयमात्मविराधनाप्रसङ्गात् ॥ ३९ ॥
अव्यक्तस्येति, अव्यक्तता हि श्रुतेन वयसा च श्रुताव्यक्तता गच्छगतानां तन्निर्गतानाच, तत्र गच्छगतः श्रुताव्यक्तोऽर्थतोऽनवगताचारप्रकल्प:, तन्निर्गतश्च नवमपूर्व तृतीयवस्तु येना30 नधिगतं सः । वयसा चाव्यक्तो गच्छगतानामाषोडशवर्षम्, तन्निर्गतानां तु त्रिंशतः प्राकू, एवच यश्नुतवयोभ्यामव्यक्तस्तस्यैकचर्या न कल्पते, संयमात्मविराधनाप्रसङ्गात् । यश्च श्रुतेनाव्यक्तो वयसा च