SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ मुक्ता] आचारलक्षणा। असारज्ञ इति, संसारोऽयमसारो जीवितमपि कुशाग्रे जलबिन्दुरिव क्षणसम्भावितस्थितिकमिति लोकस्य सारो धर्मस्स च ज्ञानसारो ज्ञानं संयमसारं संयमस्यापि निर्वाणं सारभूतमिति च यो न जानाति स कामादीनां दुस्त्यजत्वाद्विषयाभिलाषुकतया अर्थात-धर्मार्थकामलक्षणं प्रयोजनमुत्प्रेक्ष्य प्राणिघः षड्जीवनिकायान् दण्डकशाताडनादिभिर्घातयति, धर्मबुद्ध्या हि शौचार्थ पृथ्वीकार्य समारभते, अर्थार्थ कृषिवाणिज्यादि करोति, कामार्थमाभरणादि, अपिशब्दादनर्थात्-प्रयोजनमनुद्दिश्यैव स्वभावेन । मृगयाद्याः प्राण्युपघातकारिणीः क्रियाः करोति क्षये चायुषो मृत्वा पुनर्जायते पुनमियत इत्येवं संसारोदन्वति मजनोन्मज्जनान्न मुच्यते । यस्तु मोहाभावाद्विशिष्टज्ञानोत्पत्त्या मिथ्यात्वकषायविषयाभिलाषरहितो भवति स न चतुर्गतिकं संसारं पुनः पुनरुपैति, न च मोहोऽज्ञानं मोहनीयं वा तस्य चाभावो विशिष्टज्ञानोत्पत्त्या, विशिष्टज्ञानोत्पत्तिरपि मोहाभावादितीतरेतराश्रयप्रसङ्गेन कथं विशिष्टज्ञानोत्पत्त्या कर्मशमनार्थं प्रवृत्तिर्भवेदिति वाच्यम् , संशयो हि द्विविधोऽर्थसंशयोऽनर्थसंशयश्चेति, तत्रार्थो 10 मोक्षो मोक्षोपायश्च, मोक्षे तु तावन्न संशयः, मोक्षोपाये च संशयेऽपि प्रवृत्तिर्भवत्येव, अर्थसंशयस्य प्रवृत्त्यङ्गत्वात् । अनर्थोऽपि संसारस्तत्कारणञ्च तत्र सन्देहेऽपि निवृत्तिः स्यादेव, अनर्थसंशयस्य निवृत्त्यङ्गत्वात् । यश्च सन्देहं जानाति तस्य च हेयोपादेयप्रवृत्तिः संसारपरिज्ञानश्च भवति, अन्यथा तस्य संसारपरिज्ञानकार्यविरत्यनुपलम्भः स्यात् , योऽपि संसारार्णवतीरं प्राप्य सम्यक्त्वं लब्ध्वाऽपि मोक्ष कहेतुं विरतिपरिणामं सफलतामनीत्वा विषयी सन् रमते प्रव्रज्यामभ्युपेत्याप्यप्रशस्तामेकच-15 मिासेवते स इन्द्रियानुकूलवर्ती तीथिको वा गृहस्थो वा कषाय्यास्रवसक्तो न श्रुतचारित्राख्यधर्मवेदी न रागद्वेषविरतः साधुरुच्यते, तत्रैकचर्या-एकाकिनश्चरणम् , प्रशस्तेतरभेदेन द्विविधा सा, प्रत्येकं द्रव्यभावभेदतो द्वेधा, तत्र द्रव्यतोऽप्रशस्ता गृहस्थपाषण्डिकादेविषयकषायनिमित्तमेकाकिनो विहरणम् , भावतस्त्वप्रशस्ता न विद्यते रागद्वेषविरहप्रयुक्ताया भावत एकचर्याया अप्रशस्तत्वासम्भवात् । प्रशस्ता तु द्रव्यतः प्रतिमाप्रतिपन्नस्य गच्छनिर्गतस्य स्थविरकल्पिकस्य चैकाकिनः सङ्घादिकार्यनि- 20 मित्तान्निर्गतस्य, भावतस्तु रागद्वेषविरहाद्भवति, द्रव्यतो भावतश्चैकचर्याऽनुत्पन्नज्ञानानां तीर्थकृतां प्रतिपन्नसंयमानाम् , अन्ये तु चतुर्भङ्गपतिताः । सारस्य चतुर्विधनिक्षेपेषु भावसारः प्रधानतया सिद्धिः तत्साधनानि ज्ञानदर्शनचारित्रतपांसि, तस्मात् किमेतन्मदारब्धमनुष्ठानं निष्फलं सफलं वेति संदेहनिमित्तमहत्प्रोक्तातिसूक्ष्मातीन्द्रियविषयसंशयं विहायानन्यचेतसा परमसारं ज्ञानादिकं ग्राह्यमिति ॥ ३६॥ अथ मुनिभावहेतुमाह 25 अनारम्भस्सन्धिज्ञस्सहिष्णुरपरिग्रहस्तपसा संयम पालयेत् ॥ ३७॥ अनारम्भ इति, न विद्यते आरम्भो यस्य सोऽनारम्भः, यतयो हि निखिलारम्भनिवृत्ताः, सावद्यानुष्ठानप्रवृत्तेषु गृहस्थेषु साधवो देहसाधनार्थमनवद्यारम्भजीविनो निर्लेपा एव पङ्काधारपङ्कजवत् । एवम्भूतो यतिरार्यक्षेत्रसुकुलोत्पत्तीन्द्रियनिर्वृत्तिश्रद्धासंवेगलक्षणं मिथ्यात्वक्षयानुदयलक्षणं वा सम्यक्त्वावाप्तिहेतुकर्मविवरलक्षणं वा शुभाध्यवसायसन्धानलक्षणं वा सन्धि स्वात्मनि व्यवस्थापित-30 मभिसन्धाय क्षणमपि प्रमादमकुर्वन् पापारम्भाद्विरतः परिहृतमृषावादः परस्वमगृह्णन् यथा गृहीतप्रतिज्ञानिर्वहणायोद्यतः परीपहोपसर्गकृतशीतोष्णाविदुःखस्पर्शेरनाकुलः संसारासारभावनादिभिस्तथाऽसातवेद
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy