________________
७२
सूत्रार्थमुक्तावस्याम्
[ द्वितीया
I
त्मकं वा प्रकाशयन्तः अन्ये उत्पादविनाशयोराविर्भाव तिरोभावात्मकतया लोकस्य नित्यतां सरित्समुद्रादेर्निश्चलतामाविष्कुर्वन्तः, इतरे च लोकस्य सादिसपर्यवसितत्वमीश्वरकर्तृकत्वञ्चाभिदधानाः परे याच्छकत्वमन्ये भूतविकारजत्वमपरे चाव्यक्तप्रभवत्वं लोकस्य जल्पन्तः स्वतो नष्टा अन्यानपि विनाशयन्ति एते कान्तग्रहग्रसिता न स्वाभिमतं साधयितुं पारयन्ति, अस्तित्वस्य नास्तित्वस्य वा 5 साधकस्यैकान्तिकमतेऽसम्भवात्, यदि ह्येकान्तेनैव लोकोऽस्ति तर्ह्यस्तिना सह नियतसामानाधिकरण्याद्यदस्ति तल्लोकः स्यात्, तथा च तत्प्रतिपक्षोऽप्यलोकोऽस्तीत्यतो लोक एवालोकः स्यात्, व्याप्यसद्भावे व्यापकसद्भाव स्यावश्यम्भावित्वात्ततश्चालोकाभावप्रसङ्गेन तत्प्रतिपक्षस्य लोकस्यापि सुतरामभावः स्यात् । लोकत्वस्यास्तित्वव्यापकत्वे च घटपटादेरपि लोकत्वं स्यात्, व्याप्यस्य व्यापकसद्भावनान्तरीयकत्वात् । एवं नास्ति लोक इति ब्रुवन् भवान् किमस्ति नास्ति वेति पर्यनुयुक्तो यद्य10 स्तीति पक्षमङ्गीकरोति तर्हि स च यदि ' लोकान्तर्गतस्तर्हि नास्ति लोक इति नैव वक्तुं शक्येत यदि तु बहिर्भूतस्तर्हि खरविषाणवदसद्भूतत्वात् कस्योत्तरं दातव्यं भवेदित्येवमेकान्तवादाः सर्वे स्वयमभ्यूह्य निराकार्याः, निराकृताश्च मदीयतत्त्वन्यायविभाकरसम्मतितत्त्व सोपानयोर्विंशदतया । एवञ्च वस्तूनां स्वपरद्रव्यक्षेत्रकालभावतः सदसदात्मकत्वे भगवदुक्तेऽभ्युपगम्यमाने न कश्चिद्दोषसंसर्गः समुन्मिपति । इत्थमेव च धर्मः स्वाख्यातो भवति, न त्वेकान्तवादिनां धर्मः स्वाख्यातः, ते हि न समनोज्ञाः, 15 जीवाजीव तव परिज्ञान पूर्वकानुष्ठानवतामेव समनोज्ञत्वात्, न हि वनवासादिना तैस्संमतेन कश्चिद्धर्मः अरण्यग्रामादीनां धर्मेऽनिमित्तत्वात्, किन्तु तत्त्वं परिज्ञाय व्रतविशेषाणामनुष्ठानादेव, तदेवं प्रावादुकसंसर्गं त्यक्त्वा विशुद्धसम्यक्त्वः सर्वसावद्याकरणाय कृतप्रतिज्ञो भिक्षुर्भिक्षायायपरकारणाय वा विहरेत्, तथाविधं प्रामादेर्बहिर्वा यत्र कुत्रचिद्वसन्तं विहरन्तं वा यतिमुपगम्य कश्चिद्गृहपतिः साध्वाचारानभिज्ञ एषु संपरित्यक्तनिखिलारम्भेषु निक्षिप्तमस्यमतोऽहमेतेभ्यो दास्यामीत्यभिसन्धाय भोः 20 श्रमण अहं संसारार्णवं समुत्तितीर्षुः, युष्मन्निमित्तमशनपानादिकं भूतोपमर्दन क्रयणादिना सङ्गृहीतं स्वगृहादाहृत्य तुभ्यं ददामि गृहादिकमपि युष्मदर्थं रचयामि संस्करोमि वेत्येवं यदि निमंत्रयेत्ततदा सूत्रार्थविशारदः साधुर्मदर्थं प्राण्युपमर्दादिना विहितं न मे कल्पते, एवम्भूतानुष्ठानाद्विरतत्वादतो भवयमेवम्भूतं वचनं नाद्रिय इति निराकुर्यात्, तथा प्रच्छन्नदोषमाहारादिकं साध्वर्थमारचितं स्वमत्या परव्यावर्णनया तीर्थकृदुपदिष्टोपायेनान्येन वा केनचित्प्रकारेण विदित्वा नाहरेत् । एवं नरकादिगति25 यातनाभिज्ञं संयमविधिवेदिन मुचितानुचितावसरज्ञमान्तप्रान्ताहारतया निस्तेजस्कमतिक्रान्त सोष्मयौवनावस्थं सम्यक् त्वक्त्राणाभावाच्छीतस्पर्श परिवेपमानगात्रं कश्चिद्गृहपतिः शीतस्पर्शासहिष्णुं मत्वा भक्तिकरुणालिङ्गितचेता यदि ब्रूयात्, मुने किमिति सुप्रज्वालितमाशुशुक्षणिं न सेवस इति, तदा महामुनिरग्निकायज्वालनं स्वतो ज्वलितादिसेवनं न कल्पत इति प्रतिबोधयेदिति ॥ ४४ ॥
सति• कारणे मरणविशेषावलम्बनं कार्यमित्याह -
अल्पसस्वः कारणे वैहानसादिकमानयेत् ॥ ४५ ॥
अल्पसत्त्व इति, मुनेर्हि द्वादशधोपधिर्भवति, सापि प्रमाणतः परिमाणतो मूल्यतश्चाल्पा, शीतापगमे शरीरोपकरणकर्मणि लाघवमापादयन्नेककल्पपरित्यागी द्विकल्पपरित्यागी कल्पत्रयपरित्यागी
30