________________
६३
1
अथ शापरिज्ञवा परिज्ञातजीवाजीवपदार्थेन मुमुक्षुणा संसारमोक्षकारणे निर्णेतव्ये, सम्यक्त्वस्य सप्तपदार्थश्रद्धानरूपत्वात्, अतस्तन्निर्णयायाह -
बन्धनिर्जरास्थानानि विज्ञाय निर्विकल्पो न प्रमाद्येत् ॥ ३३ ॥
बन्धेति, कर्मबन्धस्थानानि तन्निर्जरास्थानानि च संसारमोक्षकारणानि, स्रुगादीनि हि सुखकारणतया सामान्यजनैः परिगृहीतानि कर्मबन्धहेतुत्वादात्रवरूपाणि भवन्ति, तान्येवावगत तत्वानां 5 सम्परित्यक्तविषयाणां वैराग्यजनकतया कर्मनिर्जरास्थानानि भवन्ति, तथा यान्येवात्साधुतपश्चरणदशविधचक्रवालसामाचार्यनुष्ठानादीनि निर्जरास्थानानि, ताम्येव कर्मोदयात् प्रतिरुद्धशुभाध्यवसायस्य दुर्गतिमार्गप्रवृत्तस्य जन्तोर्महाशातनावतः सातर्द्धिरसगौरवप्रवणस्य पापोपादानकारणानि भवन्ति, सर्व - बस्तूनामनेकान्तात्मकत्वात् । एवञ्च यावन्ति कर्मनिर्जरार्थं संयमस्थानानि तावन्त्येव कर्मबन्धनायासंयमस्थानानि भवन्ति । तदेवमात्रवद्वारायातेन कर्मणा बन्धं तपश्चरणादिना तत्प्रमोक्षश्च विशेषेणा - TO गमानुसारेण जानीयात् - तत्र तावज्ज्ञानस्य ज्ञानिनश्च प्रत्यनीकतया निहवेनान्तरायेण प्रद्वेषेणात्यन्ताशातनया विसंवादेन च ज्ञानावरणीयं कर्म बध्यते, एवं दर्शनादेरपि प्रत्यनीकादिना दर्शनावरणीयं कर्म जीवानुकम्पनतया बहूनां जीवानामदुःखोत्पादनात्सात वेदनीयं कर्म तद्वैपरीत्ये नासात वेदनीयमनन्तानुबन्धिन उत्कटत्वात् तीव्रदर्शनचारित्रमोहनीयान्मोहनीयं कर्म, महापरिग्रहेण पञ्चेन्द्रियवधात् कुणिमाहारेण नरकायुष्कम्, मायावित्वेनानृतभाषणात् कूटतु लाकूट मानव्यवहारात्तिर्यगायुष्कम्, प्रकृतिविनीत- 15 तया सानुक्रोशतया मात्सर्यान्मनुष्यायुष्कम्, सरागसंयमेन देशविरत्या बालतपसाऽकामनिर्जरया देवायुष्कम्, कायमनोभाषर्जुतयाऽविसंवादनाच्छुभनाम, विपर्ययादशुभनाम, जातिकुल बलरूपतपः श्रुतलाभैश्वर्यमदाभावादुच्चैर्गोत्रम्, जात्यादिमदात् परपरिवादाश्च नीचैर्गोत्रम्, दानलाभभोगोपभोगवीर्यान्तरायविधानादान्तरायिकं कर्म बध्यते, एत आश्रवाः । बाह्याभ्यन्तरभेदं तपो निर्जरा, इत्येवमादीनि भगवदागमानुसारेण विज्ञाय निर्विकल्पो यत्सर्वज्ञो ब्रवीति तदेव चतुर्दशपूर्वविदादयो वदन्ति न तु 20 पाषण्डिकादय इव विरुद्धं वदन्ति, पाषण्डिनो हि स्वदर्शनानुरागितयाऽपरदर्शनमपवदन्तः परस्परं विवदन्ते तत्र सांख्या आत्मानं सर्वव्यापिनं निष्क्रियं निर्गुणं चैतन्यलक्षणं पचविंशतितत्त्वज्ञानान्मोक्षभाजं वदन्ति, वैशेषिकास्तु द्रव्यादिषट्पदार्थपरिज्ञानान्मोक्षं ज्ञानादिगुणसमवायिनमात्मानं परस्परनिरपेक्षसामान्यविशेषात्मकश्च तस्त्वमङ्गीकुर्वन्ति, शाक्यास्तु परलोकयायिनमात्मानमेकं नाभ्युपयन्ति सामान्यविरहि क्षणिकं वस्तु स्वीकुर्वन्ति, मीमांसकास्तु मोक्षसर्वज्ञाभावाभ्यां व्यवस्थिताः । केचित्पृथि - 26 व्याद्येकेन्द्रियजीवानपवदन्ति, अपरे वनस्पतीनामचेतनतामाहुः, एते सर्वे वादाः परस्परविरुद्धाः प्रमाणशून्याश्च, एते सर्वे तीर्थिकाः सावद्ययोगारम्भिणो नरकादियातनास्थानेषु भूयो भूयो दुःखमनुं - भवन्ति, तस्माद्दुर्लभं सम्यक्त्वं चारित्रपरिणामं वा प्राप्य दृढचेतास्तदनुष्ठाने प्रमादं न कुर्यादिति ॥ ३३ ॥ सम्यक्त्वज्ञानविरतीनां सत्त्वेऽपि निरवद्यतपोऽनुष्ठानमन्तरेण न पूर्वोपात्तकर्मणः क्षयो
आधारक्षणा
भवतीत्याह-
विदित्वा दुःखं कर्मज्ञो भावित चेतास्तपसा तनुं शोषयेत् ॥ ३४ ॥
30