SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ सूत्रार्थमुकावल्याम् [द्वितीया तत्रावाप्ततद्योग्यक्षेत्रकालस्य लघुकर्मणस्तेनैव भवेन मोक्षप्राप्तिः, यथाशक्तिप्रतिपालितसंयमास्त्वपरे आयुषः क्षये सौधर्मादिदेवलोकमवाप्य ततः पुण्यशेषतया कर्मभूम्यार्यक्षेत्रसुकुलोत्पत्त्यारोग्यश्रद्धासंयमादिकमवाप्य विशिष्टतरं स्वर्गमनुत्तरोपपातिकपर्यन्तमधितिष्ठन्ति, ततश्च्युप्ता अवाप्तमनुष्यादिसंयमभावा अशेषकर्मक्षये मोक्षमुपयान्तीति भावः ॥ ३१ ॥ 5 अथ सम्यग्दर्शनादीनाह-- तीर्थकरवचनश्रद्धालुीरो न लोकैषणां कुर्यात् ॥ ३२ ॥ तीर्थकरेति, तीर्थ कुर्वन्तीति तीर्थकराः, तेषां वचने श्रद्धालुरप्रकम्पितरुचिमान्-अवाप्तसम्यक्त्व इत्यर्थः, भगवान् यद्वस्तु यथैवाभिहितवान् , तद्वस्तु तथैवास्ते नापरप्रोक्तवचसामिव तद्वचो बाधितमेवं श्रद्दधान इति यावत् । तत्र तीर्थकरा अतीता अनन्ताः कालस्यानादित्वात् , अनागता 10 अप्यनन्ताः, तत्कालस्यानन्तत्वात् , तेषाश्च सर्वदैव भावात् , वर्तमानतीर्थकृतः प्रज्ञापकापेक्षयाऽनवस्थिताः, तथाप्युत्कृष्टजघन्यपदिन इत्थम् , उत्कृष्टेन समयक्षेत्रसम्भविनस्सप्तत्युत्तरं शतम् , यथा पञ्चखपि विदेहेषु प्रत्येकं द्वात्रिंशत् , प्रत्येकं द्वात्रिंशरक्षेत्रात्मकत्वात् , पञ्चस्वपि भरतेषु पश्च, एवमैरवतेष्वपि, एवं सप्तत्यधिकं शतमिति । जघन्यतश्च पञ्चसु महाविदेहेषु प्रत्येकं चत्वारस्तीर्थकरा इति विंशतिः । भरतैरावतयोस्त्वेकान्तसुषुमादावभाव एवेति । एते सर्व एव परप्रश्नावसरे सामान्यतो वा सदेवमनु15 जायां सभायामर्धमागधया सर्वसत्त्वभाषानुगामिन्या भाषया जीवादिसप्तपदार्थान् सम्यग्दर्शनादीनि मोक्षमार्गाणि मिथ्यात्वादीन् बन्धहेतून सदसदनेकान्तात्मकं तत्त्वं पृथिव्यादिप्राणिगणांश्च प्ररूपयन्ति, तत्सर्व सत्यमेवेति विहितश्रद्धानो धीरः-तथाविधसंसर्गादिनिमित्तोत्थापितमिथ्यात्वोऽपि श्रुतचारित्रात्मक धर्ममवगम्यापरित्यक्तसम्यक्त्वो लोकैषणामिष्टेषु शब्दादिषु प्रवृत्तिमनिष्टेषु हेयबुद्धिश्च न कुर्यात् , लोकैषणायाः सावद्यानुष्ठानप्रवृत्तिमूलत्वात् । ये चाविदितपरमार्था इन्द्रियार्थेषु प्रलीनास्ते पुनः पुनर्जन्मादि20 दुःखभाजो भवन्ति, तस्मादप्रमत्तः सन् निद्राविकथादिप्रमादरहितोऽक्षिनिमेषोन्मेषादावपि सदोपयुक्तः कर्मरिपून्मूलनाय यत्नं प्रकुर्यादिति भावः । नामस्थापनाद्रव्यभावभेदेन सम्यक्त्वं चतुर्धा निक्षेप्यम् , नामस्थापने प्रसिद्धे, ज्ञशरीरभव्यशरीरभिन्नं द्रव्यसम्यक्त्वश्वापूर्वनिर्वतितं रथादि, भन्नरथादेरवयवसंस्कारः, गुणान्तराधानाय विहितो द्रव्यसंयोगः, यत्प्रयुक्तं द्रव्यं लाभहेतुत्वादात्मनः समाधानाय भवति तद्रव्यं, यञ्च परित्यक्तं भारादि तत्, भग्नध्यादिभाण्डशकलानि, छिन्नमांसादिश्च यथाक्रमं कृत26 संस्कृतसंयुक्तप्रयुक्तोपयुक्तपरित्यक्तभिन्नछिन्नद्रव्यसम्यगुच्यते तत्तन्मनःसमाधानहेतुत्वात् । दर्शनज्ञान चारित्रभेदाद्भावसम्यक् त्रिविधम् , दर्शनचरणे अपि प्रत्येकमौपशमिकक्षायोपशमिकक्षायिकभेदेन त्रिविधं भवति, उपशमश्रेण्यामौपशमिकं दर्शनं, सम्यक्त्वपुद्गलोपष्टम्भजनिताध्यवसायः क्षायोपशमिकदर्शनम् , दर्शनमोहनीयक्षयात् क्षायिकदर्शनम् । तथोपशमश्रेण्यामौपशमिकचारित्रं कषायक्षयोपशमात् क्षायोप शमिकं चारित्रं चारित्रमोहनीयक्षयात् क्षायिकचारित्रमिति, ज्ञानन्तु क्षायोपशमिकं क्षायिकञ्चेति द्विवि30 धम् , चतुर्विधज्ञानावरणीयक्षयोपशमान्मत्यादिचतुर्विधं क्षायोपशमिकज्ञानम्, समस्तघातिक्षयात् क्षायिक केवलज्ञानमिति । इदं सम्यग्दर्शनमन्तरेण यमनियमाद्याचरतां स्वजनधनभोगान् परित्यजतामपि न कर्मक्षयः, अतस्तजिगीषुः सम्यग्दर्शने प्रयतेसेति ॥ ३२ ॥ . . .
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy