SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ६० सूत्रार्थमुक्तावल्याम् [ द्वितीया कुर्यात्, भषोपग्राहिकर्मचतुष्टयमप्रम्, घातिकर्मचतुष्टयं मूलम्, मोहनीयं वा मूलं शेषाणि त्वग्रम्, मोहनीयवशाच्छेषप्रकृतिबन्धात्, मिथ्यात्वं वा मूलं शेषं त्वग्रम् । यद्वाऽसंयमः कर्म वा मूलं संयमतपसी मोक्षो वाऽग्रम्, ते अमूले दुःखसुखकारणतयाऽवधारयेत् सोऽयं तपस्संयमाभ्यां रागादीनि बन्धनानि तत्कार्याणि वा कर्माणि छित्त्वा निष्कर्मा निर्गतावरणः सर्वज्ञानी सर्वदर्शी च 5 भवति स एव संसारात् प्रमुच्यत इति भावः ॥ २८ ॥ अथ संयमानुष्ठाय्येव मुनिर्न केवलं परीषहोपसर्गादिदुःखसहः पापकर्मानुष्ठायी वेत्याहसन्धिज्ञो मुनिर्विज्ञाय गत्यागती रागद्वेषाभ्यां न लिप्येत ॥ २९ ॥ सन्धिज्ञ इति, सन्धिर्विवरमवसरो वा, तं जानातीति सन्धिज्ञः, स सम्यक्त्वावाप्तिलक्षणं सम्यग्ज्ञानावाप्तिरूपं चारित्रमोहनीयक्षयोपशमात्मकं वा कर्मविवरं धर्मानुष्ठानस्यावसरं विज्ञाय जीव10 त्रातस्य दुःखोत्पादनानुष्ठानं न विदध्यात् सर्वत्रात्मौपम्यं समाचरेत्, निखिला हि प्राणिनो दुःखं द्विषन्ति सुखमभिलषन्ति चातस्तेषां न करणत्रयैर्व्यापादको भवेत्, एवं समताव्यवस्थित आगमपर्यालोचनयाऽऽत्मानं विविधैरुपायैरिन्द्रियप्रणिधानाप्रमादादिभिः प्रसन्नं विदध्यात्, आत्मप्रसन्नता च संयमस्थस्य भवति, अयमेव च मुनिर्वैश्चयिकः, न तु पापकर्माकरणमात्रतया मुनिः, तत्र मुनित्वस्या - निमित्तत्वात् परस्परतो भयेन लज्जया वा हि पापं कर्म न करोत्यपरः, न तु मुनित्वात्, अद्रोहाध्य• 15 वसायो हि मुनिः, स च तत्र नास्ति, अपरोपाध्यावेशात्, शुभान्तःकरणपरिणामव्यापारापादितक्रियस्यैव मुनिभावो नान्यथेति निश्चयनयाभिप्रायः । व्यवहारनयापेक्षया तु यो हि सम्यग्दृष्टिरुत्क्षिप्तपश्चमहाव्रतभारस्तद्वहने प्रमाद्यन्नप्यपरसमानसाधुलज्जया गुर्वाद्याराध्यभयेन गौरवेण वा केनचिदाधाकर्मादि परिहरन् प्रत्युपेक्षणादिकाः क्रियाः करोति, यदि च तीर्थोद्भासनाय मासक्षपणातापनादिका जनविज्ञाताः क्रियाः करोति तत्र तस्य मुनिभाव एव कारणम्, तद्व्यापारापादितपारम्पर्ये शुभाध्यव20 सायोपपत्तेरिति । तदेवं शब्दादिविषयपञ्च केषु विगतरागद्वेषोऽत एव गुप्त आगतिगतिपरिज्ञाता रागद्वेषाभ्यामनपदिश्यमानो न क्वाप्यस्यादिना छेद्यते कुन्तादिना भिद्यते पावकादिना वा दह्यते, किन्तु रागद्वेषाभावात्सिद्ध्यत्येव । आगतिर्हि तिर्यङ्मनुष्ययोश्चतुर्धा, चतुर्विधनरकादिगत्यागमनसद्भावात्, देवनारकयोर्द्वधा, तिर्यङ्मनुष्य गतिभ्यामेवागमन सद्भावात्, मनुष्येषु पचधा, तत्र मोक्षगतिसद्भावात् । तदेवमागतिगतिपरिज्ञानाद्रागद्वेषपरित्यागः, तदभावाच्च छेदनादिसंसारदुःखाभावः । यस्तु कुतो वय25 मागताः क यास्यामः किं वा तत्र नः सम्पत्स्यत इति न विचारयति तस्य संसार एव रतिः स्यात् ॥ २९ ॥ य एवं निष्प्रत्यूहं मोक्षमार्गानुष्ठाता स एवात्मनो मित्रमित्याह स एव समदयत्मनो मित्रं क्रोधादीन् वमितेति सर्वज्ञोपदेशः ॥ ३० ॥ स एवेति, यो रागद्वेषविप्रमुक्तो विषयसुखभोगादिकं पूर्वमनुभूतं न स्मरति न वाऽनागत - मभिवान्छति भगवद्वचनामृतपानादतिक्रान्तसंसारमिवानागतमपि संसारं मन्यते स पूर्वोपचितकर्म30 क्षपणाय प्रवृत्तो धर्मध्यायी शुकुध्यायी वेष्टाप्राप्तिविनाशजनितमानस विकारलक्षणाऽरति विशेषेऽभि - कंषितार्थप्राप्तिजनितानन्दस्वरूपे रतिविशेषे चोपसर्जनप्राये तदाप्रहमतिरहितस्तावनुचरति, तस्य च
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy