SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ मुका] भाचारलक्षणा। शान्तमोहयोरपि भवतीत्यतो दुरन्तो निद्राप्रमादः । योऽज्ञानोदयादर्शनमोहनीयमहानिद्रासुप्तः स महा. दुःखमनुभवति, अज्ञानं हि दुःखहेतुत्वाद्दुःखम् , अज्ञानश्च मोहनीयं नरकादिभवव्यसनोपनिपातायेह च बन्धवधशारीरमानसपीडायै, अयश्च भोगलिप्सुर्जीवोपमर्दादिकषायहेतुकं कर्मोपादाय नरकादियातना. स्थानेषूत्पद्यते, ततः कथञ्चिदुत्थाय निखिलक्लेशोन्मूलनदक्षं धर्मकारणमार्यक्षेत्रादौ मनुष्यजन्म प्राप्य पुनरपि तत्तदारभते येन येनाधोऽधो ब्रजति न संसारान्मुच्यते, यस्त्वमुं लोकाचारं ज्ञात्वा शस्रोपरतो । धर्मजागरणेन जागृतश्शब्दादीन कामगुणान् दुःखैकहेतून् ज्ञपरिज्ञया विदित्वा प्रत्याख्यानपरिज्ञया प्रत्याचष्टे सोऽयमात्मवेत्ता जन्मजरामरणशोकव्यसनोपनिपातात्मकसंसारलक्षणस्य भावावर्त्तस्य शब्दादिकामगुणविषयाभिलाषात्मकभावस्रोतसश्च कारणं रागद्वेषसङ्गं ज्ञात्वा परिहरति, तदेवं सुप्तजाग्रदोषगुणज्ञो बाह्याभ्यन्तरग्रन्थरहितश्शीतोष्णरूपौ परीषहावत्यन्तं सहमानः कर्मक्षपणायोद्यतस्य परीषहाणामुपसर्गाणां वा कठोरता साहाय्यं मन्यमानस्तान् पीडाकारित्वेन न गृह्णाति । तत्र शीतोष्णयोर्नामस्था- 10 पनाद्रव्यभावभेदेन प्रत्येकं चतुर्धा निक्षेपः, ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यशीतं हिमतुषारकरकादिकम् , द्रव्यप्राधान्याच्छीतकारणद्रव्यस्य शीतत्वोक्तिः । जीवाश्रितत्वपुद्गलाश्रितत्वाभ्यां भावशीतं द्वेधा, पुद्गलस्य शीतं गुणो भावशीतं पुद्गलाश्रितम्, गुणप्राधान्यविवक्षणात्, एवमुष्णमपि भाव्यम् । जीवस्य तु शीतोष्णरूपोऽनेकविधो गुणः, तद्यथा औदयिकादयषड्भावाः, तत्रौदयिक उष्णः, कर्मोदयाविभूतनारकादिभवकषायजन्यत्वात् , औपशमिकश्शीतः, कर्मोपशमावाप्तसम्यक्त्वविरतिरूपत्वात् , क्षायि-15 कोऽपि शीत एव, क्षायिकसम्यक्त्वचारित्रादिरूपत्वात् । अथवा स्त्रीसत्कारपरीषहौ शीतौ भावमनोऽनुकूलत्वात् , शेषास्तु विंशतिरुष्णा मनसः प्रतिकूलत्वात् , तथा धर्मेऽर्थे वाऽनुद्यमः शीतलः, तपस्युद्यम उष्णमिति ब्रुवते, उपशान्तकषायः शीतो भवति, क्रोधादिपरितापोपशमात्, सप्तदशभेदः संयमश्शीतः, जीवानामभयकरणशीलत्वात् , एतद्विपरीतोऽसंयम उष्णः, निर्वाणसुखं शीतं समस्तकर्मोपतापाभावात् , एतद्विपरीतं दुःखमुष्णमिति । तथा च यो मुनिः प्रमादरहितश्शब्दरूपादिविषयेषु राग-20 द्वेषरहितो गुप्तात्मा शस्त्राशस्त्रवेदी तत्प्राप्तिपरिहारविधायी ज्ञानावरणीयादिकर्मणश्शस्त्रभूतस्य तपसोऽनुधानकुशलत्वादशस्त्रभूतसंयमानुष्ठानकुशलस्तस्याश्रवनिरोधादनादिभवोपात्तकर्मणां क्षयो भवति, तथा पायं मतिश्रुतावधिमनःपर्यायवान मन्दमतिस्तीक्ष्णः, चक्षुर्दर्शनी, अचक्षुर्दर्शनी, निद्रालुः सुखी दुःखी वा, मिथ्यादृष्टिः सम्यग्दृष्टिः सम्यमिथ्यादृष्टिः, स्त्रीपुमान्नपुंसकः, कषायी, सोपक्रमायुष्को निरुपक्रमायुष्कोऽल्पायुः, नारकस्तियग्योनिक एकेन्द्रियो द्वीन्द्रियः पर्याप्तकोऽपर्याप्तकः सुभगो दुर्भगः, उधैर्गोत्रो 25 नीचैर्गोत्रः कृपणत्यागी निरुपभोगो निर्वीर्य इत्येवं न कर्मनिमित्तव्यपदेशभाग्भवति । तस्माज्ज्ञानावरणादिकर्म प्रत्युपेक्ष्य तद्वन्धं तत्सत्ताविपाकापन्नाः प्राणिनो यथा भावनिद्रया शेरते तथाऽवगम्याकर्मतोपाये भावजागरणे यतितव्यम् , भावनिद्रासुप्तो हि कामभोगाभिलाषी महारम्भपरिप्रहपरिकल्पितजीवनोपायः कामासक्तसदुपादानजनितकर्मणा परिपूर्णो गर्भाद्गर्भान्तरमुपयाति संसारचकवालेऽरघट्टभटीयनन्यायेन, स प्राणिनं हत्वाऽपि क्रीडेति मन्यते, एते पशवो मृगयायै सृष्टाः, मृगया च सुखिनां 30 क्रीडायै भवतीत्येवं वदनात्मनो वैरमेव वर्धयते, तस्माज्जागरूकस्सम्यग्दर्शनशानचारित्राणि परमं मोक्षपदमिति ज्ञात्वा पापानुवन्धिकर्म न करोति न कारयति न वाऽतुमन्यते, अत आत्मनोभमूळे एक
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy